पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

एवं ताव“न्मुतेः क्रियाभिः सिद्धावादि'ति निरस्तोऽयं पक्षः । अथाधुना सर्वकर्मप्रवृतिहेतुनिरूपणेन यथाव स्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव सकलसंसारान र्थनिवृतिरितीमं पक्ष द्रढयितुकाम आह इह चेदं परी क्ष्यते । किं यथा प्रतिषिद्धेषु यादृच्छिकेषु च कर्मसु स्वाभाविकस्वाशयोत्यनिमित्तवशादेवेदं हितमिदमहित मिति परिकल्प्य मृगतृष्णिकोदकपिपासुरिव लौकिकप्र माणप्रसिद्धान्येव साधनान्युपादाय हितप्राप्तयेऽहितनि रासाय च स्वयमेव प्रवर्तते निवर्तते च तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किंवान्यदेव तत्र प्रवृतिनि


 वृत्तानुद्रवणपूर्वकं वर्त्तितष्यमाणग्रन्थसन्दर्भस्य तात्पर्यमाह एवं तावदिति । इदानीं सर्वकर्मसु प्रवृत्तौ यो हेतुमिथ्याज्ञानादिलक्षणस्तस्य प्रवर्तकस्य निरूपणेन कर्मणामविद्याकार्यत्वेन विद्यासाध्याविद्यानिवृतिलक्षणे मोक्षेऽनुपयोगात्कर्मसमुचिताभ्यासादिनिरपेक्षात्मज्ञानादेव कैवल्यमिति प्रद्श्र्यत इत्यर्थः । ननु कथं कर्मसु प्रवृत्तिहेतुर्मिथ्याज्ञानं तेषां यथायोग्यं लौकिकवैदिकप्रमाणमूलत्वादित्याशङ्कय कर्मप्रवृत्तिनिमित्तहेतुनिरूपणार्थ विमृशति इह चेदमिति । प्रतिषिद्धेषु कलञ्जभक्षणादिषु यादृच्छिकेषु च शयनासनेष्टविहारादिषु स्वाभाविकः शास्त्रज्ञानानाधेयो यः स्वाभिप्रायोऽहमप्राप्तसुखोऽपरिहृतदुःखश्च तेन मम प्राप्यं परिहरणीयं चास्तीति मिथ्याज्ञानम् । तदुत्थनिमित्तं रागादितद्वशात्प्रवृत्तेर्विषयविशेषालम्बनत्वादिदं पुरोवर्त्तितवस्तु हितमनुकूलमहितं प्रतिकूलमिति च कल्पनामात्रेण निश्चित्य स्वयमेव शास्त्रनिरपेक्ष लौकिकप्रमाणसिद्धान्येव च साधनानि साधनत्वेनोपादाय हितप्राप्त्यर्थमहितनिवृत्त्यर्थं च यथा तेषु कर्मसु प्रवर्तते निवर्त्तते च तथैवादृष्टार्थेषु कर्मसु काम्येषु नित्येषु च किं प्रवर्तत इत्यर्थः । एवं सिद्धान्तहृद्यमभिधाय पूर्वपक्षहृदयमाह किंवान्यदिति । शास्त्रादिजनितं सम्यग्ज्ञानं वा तत्र प्रवृत्तिनिमि-