पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
प्रथमोऽध्यायः ।

 साध्यसाधनभावोऽयं वचनात्पारलौकिकः ।
 नाश्रौषं मोक्षदं कर्म श्रुतेर्वत्रात्कथञ्चन ॥ २७ ॥
अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्छोक्तिवद्भवतो निष्प्र
 निषिद्धकाम्यथोख्यागस्खयापीष्टो यथा मया ।
 नित्यस्याफलवत्खाञ्च न मोक्षः कर्मसाधनः ॥ २८ ॥


नत्वप्रतीतेरश्रूयमाणफलकेषु विश्वजिदादिषु स स्वर्गः सर्वान्प्रत्यविशिष्टत्वादिति विश्वजिदधिकरणन्यायेन स्वर्गस्यैव फलत्वेन श्रवणान्न पारिशेष्यन्यायसिद्धिरित्यर्थः । एतदेव श्लोकेन स्पष्टयति दुरितेति । यद्यपि स्वसिद्धान्ते नित्यानां कर्मणां पितृलोकप्राप्तिफलत्वं “कर्मणा पितृलोक” इतिश्रुतेस्तथापि मीमांसकदृष्टयपेक्षया *येनकेनचन यजेतापि वा द्वहोमेनानुपहतमना एव भवती'तिवाक्यात्तेषां दुरितक्षपणार्थत्वाभ्युपगमान्न मोक्षफलत्वम् । तथा काम्यमपि न मोक्षफलं स्वर्गादिफलसम्बन्धादेवेत्यर्थः ॥ २६ ॥

 मोक्षोद्देशेन कर्मणां विधानाभावादपि न तत्साधनत्वमित्याह प्रमाणेति । पारलौकिकः साध्यसाधनभावो वचनाद्भवति वचनं च मोक्षहेतुत्वेन कर्माभिधायकं श्रौतं वा स्मार्त वा नोपलभ्यत इत्यर्थः ॥ ॥ २७  यदुक्तमकुर्वतः क्रियाः काम्या इत्यादि तदस्माभिरभ्युपगतमेव त्वयाप्युक्तं नाधिकमित्याह अभ्युपगतेति । श्वश्रुनिर्गच्छोक्तिवदिति । भिक्षामटते माणवकाय भिक्षां प्रत्याचक्षाणामात्मनः स्नुषां भत्र्सयित्वा श्वश्रुः पुनस्तमाहूय समागते तस्मिन्नास्ति भिक्षा निर्गच्छेति तथैव प्रत्याचष्टे तद्वदित्यर्थः । ननु कर्मणां मोक्षसाधनत्वं त्वयानभ्युपगतमपि मयोक्तमित्यत आाह नित्यस्येति । काम्यप्रतिषिद्धयोरभ्युद्यप्रत्यवायफलयोस्त्यगात्रैमित्तिकस्य च पापक्षयफलार्थत्वान्नित्यानां च फलरहितत्वान्न मोक्षः कर्मसाधन इति श्लोकार्थः ॥ २८ ॥