सामग्री पर जाएँ

पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
प्रथमोऽध्यायः ।


दूषणोपक्रमावधिज्ञापनायाह
 अत्राभिदध्महे दोषान् क्रमशो न्यायवृंहितैः ।
 वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसम्भ्रमात् ॥ २३ ॥
चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसम्भवान्न मुतेः क
 अज्ञानहान्मात्रात्वान्मुक्तः कम न साधनम् ।
 कर्मापमाष्टिं नाज्ञानं तमसीवोत्थितं तमः ॥ २४ ॥


वाचमित्यादीनि । तस्मात्तदीयं ज्ञानमयथार्थमेवातस्तद्वाचः संभावितदोषा एवेति भावः ॥ २२ ॥

 संप्रति संभावितदोषान्प्रकटीकर्तुमुत्तरग्रन्थसंदर्भ इतिात्पर्यमाह दुषणेति । अवधिः सीमा । अत्र केवलकर्मणो मुक्तिसाधनत्वमित्यस्मिन्पक्ष इत्यर्थः । तत्रापि व्युत्क्रमदोषं परिहरति क्रमश इति । स्वपक्षस्थापनोपयोगिन्यायोपपन्नतां दर्शयति न्यायेति । न केवलमेतावदेव परपक्षप्रतिक्षेपसामथ्र्यमप्यस्तीत्याह पूर्वपक्षेति । छलजातिनिग्रहस्थानादिभिर्न परोक्तयो निरस्यन्त इत्याह नातिसंभ्रमादिति । तेन तत्वनिर्णयावसानानि वादकथारूपाण्यस्मद्वचांसीति भावः ॥ २३ ॥

 नित्यसिद्धात्मस्वरूपावस्थानप्रतिबन्धकसकार्याशाननिवृत्तिव्यतिरेकेणोत्पत्याप्तिविकृतिसंस्कृतिलक्षणस्य कर्मफलस्य कैवल्येऽसम्भवादशाननिवृत्तेश्च ज्ञानमात्रहेतुत्वान्न कर्मापेक्षेत्युत्तरश्लोकतात्पर्यमाह चतुर्विधस्यापीति । स्वरूपावस्थानस्य नित्यसिद्धतया कर्मसाध्यत्वाभावेऽप्यज्ञाननिवृत्तेरागन्तुक्याः कर्मसाध्यत्वं किं न स्यादित्यत आह कर्मापमार्टीति । तत्र दृष्टान्तमाह तमसीति । तमसि सत्येवोत्थितं रशनोरगभ्रमादि निवर्तयति तद्धेतुकत्वादेवमशानहेतुकं कर्म यथा तमा न नाइज्ञान निवर्तयति तेन स्वभावतो विषयतश्ध विरोधाभावादित्यर्थः ।॥ २४ ॥