पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


कर्मकार्यत्वाभ्युपगमेऽपि दोष एव ।
 एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः ।
 प्रत्येकं चेट्टयान्यानि सर्वेभ्योऽप्येककर्मता ॥ २५ ॥
सर्वप्रकारस्यापि कर्मण उत्पतित एव विशिष्टसाध्याभिः
सम्बन्धान पारिशेष्यसिद्धिः ।
 दुरितक्षपणार्थवान्न नित्यं स्याद्विमुक्तये ।
 स्वर्गादिफलसम्बन्धाकाम्यं कर्म तथैव न ॥ २६ ॥


 कर्मसाध्यत्वव्यापकभूतोत्पत्त्यादिक्रियाफलाभावान्न कर्मसाध्यत्वमित्युक्तम् । इदानीं मुक्तः कर्मसाध्यत्वेऽभ्युपगम्यमानेऽपि दोषाद्निर्मोक्ष इत्याह कर्मकार्यत्वेति । कथं दोषादनिर्मोक्ष इत्याशङ्कय किमेकैककर्मनिष्पाद्या मुक्तिः किंचा समस्तकर्मनिष्पाद्येति विकल्प्याद्य निरस्यति एकेन वेत्यादिना पादत्रयेण । सर्वेषां कर्मणां निरपेक्षसाधनत्वात्कर्मान्तरवैयथ्र्यप्रसङ्ग इत्यर्थः । द्वितीयं पक्ष दूषयति सर्वेभ्य इति । अग्निहोत्रद्र्शपूर्णमासचातुर्मास्यपशुसोमादीनां मिलितानां मोक्षसाधनत्वे सत्येकमुमुक्षुनियोगविषयतया एककर्मत्वं प्राप्त । तञ्चायुक्तं फलभेदश्रवणात् । सर्वाश्रमकर्मणामेकेनाश्रमिणानुष्ठातुमशक्यत्वाच्च । प्रत्येकमाश्रमविहितसर्वकर्मभ्यो मोक्ष इति पक्षेऽपि सामग्रीवैचित्र्यात्फलेऽपि चैचित्र्यं स्यान्न तु तद्युक्तं मुक्तरेकरूपत्वात् । न चोक्तविकल्पदोषदुष्टत्वादन्तः करणशुद्धिद्वारेण कर्मणां मोक्षं प्रति साधनभूतशानसाधनत्वमपि न स्यादिति शङ्कनीयम् । चिरचिरतरविरतमत्वाल्पत्वमहत्वादिभिः शुद्धेः कालतः स्वरूपतश्च वैचित्र्याभ्युपगमादिति भावः ॥ २५ ॥

 ननु नित्यनैमित्तिकानां कर्मणां फलान्तराश्रवणान्मोक्षस्य फलत्वेन साधनाकाङ्कत्वादन्योन्याकाङ्कया सम्बन्धः पारिशेष्यन्यायेन सिध्यति । एवमन्येषामप्यश्रुतफलानां कर्मणां मोक्षसाधनत्वं सेत्स्यतीत्याशङ्कयाह सर्वप्रकारस्यापीति । विधेरिष्टसाधनरूपत्वात्साध्यस्य चेष्टत्वान्मोक्षस्य चासाध्यत्वादग्निहोत्रं जुहोतीत्याद्युत्पत्तिविधिवाक्यादेव विशिष्टसाध-