क्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्प्रतिपत्तव्योऽयथावस्तुस्वाभाव्यान्मृगतृष्णिकोदकप्रबोधवदित्यत आह । संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्छति । शशो निमीलनेनेव मृत्यु परिजिहीर्षति ॥ १६ ॥ अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् । इममर्थ पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् । “यच्चक्षुषे”ति विस्रब्धं “न दृष्टेरि"ति च स्फुटम् ॥१७॥ बुद्ध्यन्तमपविद्ध्यैवं कोन्वहं स्यामितीक्षितुः । श्रुतिस्तत्वमसीत्याह सर्वमानातिगामिनी ॥ १ ॥
त्मस्वभावत्वाभावात्तद्विपयं ज्ञानं संशयविपर्यासज्ञानवदात्मासाधारणस्वभावावलम्बनं न भवति तेन वाक्यजमद्वैतज्ञानमेव मुक्तिहेतुर्न विवेकशानमित्यर्थः। संसारबीजेति । संसारवीजमज्ञानं तत्संस्थ एव विवेकदर्शी भेदज्ञानस्याज्ञानजन्यत्वादेवंविधस्तद्धिया संसारगोचरयाविवेकदृष्ट्या मुक्तिमिच्छति सोऽयं नयननिमीलनेन मृत्यु परिजिहीर्षति यः शशः स इव भवति । अतद्धेतुमेव तद्धेतुं मन्यत इत्यर्थः॥ १६ ॥ एवं द्वैतग्राहकप्रत्यक्षादिप्रमाणानामविषयत्वमात्मनस्तर्केणोपपाद्य तस्य प्रशिथिलमूलत्वपरिहाराय प्रमाणमुदाहर्तुमाह अस्येति । “यच्चक्षुषा न पश्यति" " न दृष्टेष्टारं पश्यरि"त्यादिश्रुत्या सर्वप्रमाणानामविषयत्वमात्मनो दर्शितमित्यर्थः ॥ १७॥ यदि प्रत्यक्षाद्यगम्यं केन तर्हि प्रमाणेनावसीयत इत्यत आह बुद्ध्यन्तमिति । एवं पूर्वोक्तान्वयव्यतिरेकाभ्यामनात्मनो निराकृत्य कोऽहमित्यान्मस्वरूपविशेपं बुभुत्सोः श्रुतिः सर्वमानान्यतीत्य तदगोचरं वस्त्वधिगन्तुं शीलमस्या अस्तीति सर्वमानातिगामिनी तद्ब्रह्म त्वमसीति विशेपस्वरूपमवगमयतीत्यर्थः ॥ १८ ॥