पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थे उक्तः । सोऽयं न्याया ऽपि वेदानार्थः शास्त्राचार्यप्रसादलभ्योऽप्यनपेक्षितशास्राचार्यप्रसादोऽनन्यापेक्षसिद्धस्वभावत्वाकैश्चिच्छूद्दधानैर्न प्रतीयते । तेषां सङ्गहार्यमभिमतप्रामाण्योदाहभगवत्पूज्यपादैश्च उदाहार्येवमेव तु । सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः ॥ १९ ॥ किं परमात्मन उपदेश उतापरमात्मन इति । किञ्चाती यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तावान्निरर्थकमुपदेशः । अथापरमात्मनस्तस्यापि स्वत एव संसार-


वृत्तकीर्तनपूर्वकं वर्त्तितष्यमाणग्रन्थस्य तात्पर्यमाह एष इत्यादिना एवं वेदान्ताथ न्यायोपेतोऽपि शास्त्राचार्यप्रसाद्लभ्योऽप्यनपेक्षितशा स्राचार्यप्रसादः स्वगुर्वनुग्रहप्राप्तवेदान्तार्थसंप्रदायो न भवत्यनन्यापेक्षसिद्धस्वभावत्वात्केवलं स्वमनीषिकामात्रपरिकल्पितत्वादिति गुरुसंप्रदायावगतवेदान्तार्थश्रद्धालुभिः कैश्चिन्न प्रतीयते न संगृह्यते तस्ततेषां बुद्धिसङ्कहायाभिमतप्रामाण्याचार्यस्य वाक्यं मयोदाह्रियत इत्यर्थः । यद्वा । वेदान्तार्थोऽविद्यादशायां शास्त्राद्यधीनोऽपि विद्योत्तरकालं स्वानुभवसिद्धत्वादनपेक्षितशास्त्राचार्यप्रसाद् एव तथापि गुरुसंप्रदायावगतवेदान्तार्थश्रद्धालुभिर्गुरुसंप्रदायदर्शनं विना न निश्चीयते ततस्तेषां सङ्कहायोदाहरणमित्यर्थः । अथवा । वेदान्तार्थो न्याय्योऽप्यनन्यापेक्षसिद्धस्वभावत्वादनपेक्षितशास्त्राचार्यप्रसादोऽपि शास्राचार्यप्रसादलभ्य एवेति श्रद्दधानैः कैश्चिद्भरुसंप्रदायदर्शनं विना न निश्चीयतेऽतस्तेषां सङ्कहाय तत्प्रदर्शनं क्रियत इत्यर्थः ॥ १९ ॥ इदानीमुपदेशसाहस्रयां भगवत्पादाचायैः पूर्वपक्षत्वेनोक्तमर्थमुदाहरति किं परमात्मन इति । एतदुत्तरत्वेन भाष्यकारीयमेव वचनं दर्श-