पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
प्रथमोऽध्यायः ।

ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च
क्रियापदप्रधानत्वाततश्राभिप्रेतज्ञानाभावः ।
 विरहय क्रियां नैव संहन्यन्ते पदान्यपि ।
 न समस्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् ॥१९॥
ज्ञानाभ्युपगमेऽपि न दोषो यतः ।
 कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाथवा ।
 सम्बन्धस्येह संसिद्वेज्ञने सायप्यदोषतः ॥ २० ॥


 एवं तात्पर्यभावाद्धस्तुपरत्वं वेदस्य निराकृत्य सांप्रतं सिद्धार्थावोधने सामथ्र्याभावादपि पदानां न वस्तुपरतेत्युत्तरश्लोकतात्पर्यमाह शानिनश्रेति । शानिनोऽपि वस्तुनि वाक्यं प्रमाणमित्यत्र न विवादस्तञ्च वाक्यं सत्येव क्रियापदे निराकाङ्कबुद्धयुत्पाद्कम् । शुङ्कां द्ण्डेन गामित्येतावन्मात्रप्रयोगे सत्यसति क्रियापदे निराकाङ्कबुद्धयुत्पत्यदर्शनादतो वेदस्य क्रियापरत्वात्क्रियायाश्ध साध्येकविपयत्वान्न सिद्धवस्तुपरो वेदभागोऽस्तीत्यर्थः । किंच पदार्थानां स्वरूपेण प्रमाणान्तरसिद्धत्वाच्छूोतृणां तावन्मात्रप्रतिपत्तये पदप्रयोगायोगात्संसर्गबोधाय पदानां प्रयोगोऽभ्युपेयः । स च संसर्गः कारकाणां क्रियां विना न सिध्यतीति क्रियावबोधे सर्वशब्दानां सामथ्र्यम् । सा च क्रिया न प्रवर्तकं कार्य विनेति सर्वपदानां कार्यान्विते शक्तिरित्याह विरहय्येति । ननु पदानां कार्यपरत्वेऽपि वाक्यात्सिद्धं वस्तु प्रतिपत्स्यामह इत्याशङ्कय पदानामेव संहत्यार्थमभिदधतां वाक्यत्वात्तद्वद्यतिरिक्तवाक्यस्याभावान्मैवमित्याह न समस्तीति ॥ १९ ॥

 एवं केवलेभ्यः कर्मभ्यः कैवल्यं न सिद्धवस्तुविषयं ज्ञानमस्तीत्यु क्तम् । इदानीं शानाभ्युपगमेऽपि न तावन्मात्रं कैवल्यसाधनं किंतु कर्मसमुचितमित्युत्तरश्लोकसम्बन्धमाह झानाभ्युपगमेऽपीति । यदेव विद्यया करोतीति वाक्याज्ज्ञानस्य नित्यनैमित्तिकादिकर्माङ्गत्वेन वा “यज्ञेन विविादिपन्ती'ति वाक्येन तदङ्गत्वेन वा *विद्यां चाविद्यां च यस्त-