निर्णेनेति च पृष्टो मुनिः ।
आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते ।
बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥ ४२ ॥
यस्माचामात्राहंव्याजेन प्रत्यङात्रो जिग्राहयिषितस्तस्मादहंवृतिः स्वरूपस्य विलयेनैव वाक्यार्थावगमाय
कारणत्वं प्रतिपद्यत इतीममर्थमाह ।
अहंवृत्त्यैव तब्रह्म यस्मादेषोऽवगच्छति ।
मत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥ ४३ ॥
अत एव च यः प्रतिज्ञातोऽयों नाहंग्राहो न तडीन इ-
आत्मनैवायं ज्योतिषास्त इत्युक्त आत्मशब्दस्य च कोशपञ्चके साधाःरणत्वा“त्कतम आत्मे'ति जनकेन पृष्टो याज्ञवल्क्यो मुनि“यऽयं विशानमयः प्राणेष्वि'ति देहेन्द्रियाणि व्युदस्य हृदीत्यधिदैवं रूपं व्युदस्य विज्ञानमयशब्देनोपात्तां बुद्धिमन्तरिति व्युद्स्य जडविशेषोपादानतया प्राप्तमव्याकृतं ज्योतिरिति व्युदस्य जडविशेषेषु प्रतिबिम्बितं चैतन्यं पूर्णत्वात्पुरुष इति व्युदस्य तेभ्यः परं प्रत्यगात्मानमहंशब्दार्थ यतोऽतिशयेन निश्चित्य दर्शयति ततोऽप्युक्तार्थोऽवसीयतामिति श्लोकमवतारयति निर्णेनेक्ति चेत्यादिना । निर्णेनेक्ति अतिशयेन निर्णयतीत्यर्थः ।॥४२॥
नन्वहङ्कारस्य लक्षणतया स्वरूपेणावस्थितत्वालुक्ष्यस्याद्धितीयत्वासिद्धिरवस्थित्यभावे च लक्षणाभावादेव तदसिद्धिरित्याशङ्का लक्ष्यस्वरूपावरोधेन लक्ष्यबुद्युत्पादनसमय एवाहङ्कारस्य तत्रारोपितस्य विलयास्रोक्तदोष इत्युत्तरश्लोकतात्पर्यमाह यस्माचेति । यस्मादेष मुमुक्षुरहं ब्रह्मास्मीत्यहङ्कारेणैव ब्रह्मा प्रतिपद्यते ततोऽहङ्कारस्वरूपबाधयैवाहङ्कारो वाक्यार्थप्रतिपत्तिकारणं भवति सप रज्जुरितिवदिति श्लोकयोजन्ना ॥ ४३ ॥
तत्त्वमस्यादिवाक्यार्थे प्रत्यक्षादिविरोधो नास्तीति द्वितीयाध्याये यत्प्रतिज्ञातं तदित्थमुपपादितमिदानीमुपसंहियत इत्याह अत एवेति ।