पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३२ नैनष्कस्यैसिद्धिश्चन्द्रिकासहिता अन्वयव्यतिरेकपरःसरं वाक्यमेवावाक्यार्यरूपमात्मानं प्रतिपादयतीत्यस्य पक्षस्य द्रढिने श्रुत्युदाहरणमुप न्यस्यति । जिघ्राणीममहं गन्धमिति यो वेत्यविक्रियः । स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः॥३९॥ यथा “तत्सत्यं स आत्मा तत्त्वमसी'?त्यस्य शेषाचेना न्वयव्यतिरेकश्रुतिर्यथा “य एषोऽक्षिणि पुरुषो दृश्यत” त्यर्थः । बोधेऽपीति पाठे स्वप्रकाशबोधस्वरूपात्मन्यपि यस्यानुभव आा परोक्ष्यं न जायत इत्यर्थः ॥ ३८ ॥ अन्वयव्यतिरेकलक्षणस्य तर्कस्य पदार्थशोधनद्वारेण वाक्यार्थप्रतिप त्तिहेतुत्वमुक्तं तत्राविशेषेण पुरुषोत्प्रेक्षारूपाणां तकर्काणां तद्धेतुत्वप्रसक्तौ वाक्यार्थप्रातिपत्तिानियमो न स्यात् पुरुषोत्प्रेक्षारूपाणां निरङ्कशत्वादि त्याशङ्कय प्रतिवेदान्तं सृष्टिस्थितिप्रलयनियमनप्रवेशार्थवादसूचितानामेव तर्काणां तद्धेतुत्वं न तु पुरुषोत्प्रेक्षारूपाणामिति दर्शयति अन्वयव्यात रेकेति । छन्दोगानां महावाक्यं तच्छेषभूतन्यायप्रदर्शकावान्तरवाक्यं च श्लोकेन दर्शयति जिम्राणीममिति । अहमिमं गन्धं जिम्राणीति व्यव स्थितं प्रमातारं यो वेत्तीति व्यभिचारिणीनां गन्धादिवृत्तीनां तदाश्रयस्य च प्रमातुर्यः साक्षी तमव्यभिचारिणं त्वंपदार्थमन्वयव्यतिरेकाभ्यां वि विच्य परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति तत्पदार्थरूपतामस्याचष्ट इत्यर्थः ॥ ३९ ॥ यथा छन्दोगानां तत्त्वमसीतिमहावाक्यशेषत्वेनावस्थात्रयसाक्षिणो ऽन्वयव्यतिरेकश्रुतिरुदाहृता तथा वाजसनेयिनामप्यहं ब्रह्मास्मीति महा वाक्यशेषत्वेन “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष' इत्या दिवाक्यं श्रूयते तथा प्रतिवेदान्तमित्थमन्वयव्यतिरेरकश्रुतयो द्रष्टव्या स्तेन न शुष्कतर्काणामिहानुप्रवेश इत्यभिप्रेत्याह यथेति । पूर्वश्लोकेनाथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमित्यन्तस्य तत्त्वमसीति