सर्वसंशश्धहेतौ हि निरस्ते कथमात्मनि ।
जायेत संशयो वाक्यादनुमानेन युष्मदि ॥ ३६ ॥
१३१
यत्र स्याइरसंशयो नासौ ज्ञेय आत्मेति पण्डितैः ।
न यतः संशयप्राझेिरात्मनोऽवगतित्वतः ॥ ३७ ॥
अनवबोधवावं तु दूरोत्सारितमेव । यत आह ।
बोध्येऽप्यनुभवो यस्य न कथञ्चन जायते ।
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ ३८ ॥
मिति । कुत इत्यत आह यत इति । सर्वसंशयानां हेतौ युष्मद्यहङ्कारप्रमुखेऽनात्मनि चतुर्विधान्वयव्यतिरेकलक्षणानुमानेन निरस्ते सति वाक्यादात्मनि वकथं संशयो जायेतेत्यर्थः॥३६॥
पूर्व प्रमाणस्वभावपर्यालोचनया संशयो न भवतीत्युक्तमिदानीं प्रमेयभूतात्मस्वभावपर्यालोचनयापि न संशयसम्भव इत्याह अपि चेति । यत्रेति । यत्र संशयः स्यादसावात्मेति न शेय इत्युक्तं तत्र हेतुमाह न यत इति । आत्मनो निःसामान्यविशेषस्य स्वयंप्रकाशत्वेन निल्यापरोक्षतया संशयायोग्यत्वादध्यारोपितादृश्यप्रपञ्चस्य तस्मिन्त्संशयालम्बनत्वसम्भवेऽपि विशिष्यरूपत्वेनानात्मत्वात्स्वरूपतावन्मात्रे संशयो न भवतीलयर्थः ॥ ३७ ॥
तर्हि तस्याऽतिपादकत्वादप्रामाण्यमस्त्वित्यत आह अनवबोधकत्वमिति । ननु श्रुतवाक्यस्यापि बोधोत्पत्त्यदर्शनादनवबोधकत्वं दूरोत्सारितमिति न शक्यते वक्तुमित्याशङ्कय गाढमूढचेतस्त्वेन प्रतिपत्तियोग्यमपि विषयमा प्रतिपद्यमानस्यानाधिकारित्वादधिकारिणः प्रमितिजनको वेद् इति न्यायाञ्च श्रुतवाक्यस्यापि बोधो न जायते न तु वाक्यस्यानव बोधकत्वादतो नानवबोधकत्वलक्षणमप्रामाण्यमित्याह बोध्येऽपीति । सुखेन बोढुं योग्येऽपि यस्य बोधो न जायते तं कथं शास्त्रं बोधयेदि-