पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽध्यायः । १२१ सामान्याञ्च विशेषाञ्च स्वमहिनैव यो भवेत् । व्युत्थायाप्यविकारी स्यात्कुम्भाकाशादिवतु सः १७ आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं तयोरसाधार णलक्षणाभिधानार्थमाह । आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥ १६ ॥ बोङ्कत्वं तद्वदेवास्याः प्रत्ययोत्पतिहेतुतः । आत्मनस्तु स्वरूपं ततिष्ठन्तीव महीभृतः ॥ १९ ॥ भिशया यदेकत्वेन प्रतीयते बाल्ययौवनावस्थाभेदेऽपि तदनुगतदेहवद् नुवृत्तः स परिणामीत्यर्थः ॥ १६ ॥ कूटस्थस्य लक्षणं निर्दिशति सामान्याचेति । अनुवृत्तव्यावृत्तसाक्षि यः स्वमहिस्रा स्वभावबलाद्वयुत्थायावस्थितः। यद्वा । तस्माद्युत्थाय स्वमाहि त्रैव स्वप्रकाशतयैव यः प्रतीयते स कूटस्थ इत्यर्थः । अत्र दृष्टान्तः कु म्भावकाशादिवदिति। यथा कुम्भाद्यवच्छिन्नत्वेनावभासमानोऽप्याकाश कुम्भादिविकारैर्विकारवान्न भवति स्वभावबलात्तेभ्यो व्युत्थाय व्यव स्थितस्तद्वदित्यर्थः ॥ १७ ॥ एवं लक्ष्यलक्षणयोर्युद्धयात्मनोर्लक्षणमभिहितमधुना तयोरसाधारणे ये रूपे उपादष्ट बोधप्रत्यगात्मत्वे तयोर्विशेषतो लक्षणाभिधानायोत्तर श्लोक इत्याह आत्मन इति । तत्र तावदुद्धयात्मनोः प्रत्यक्त्वे विशेषमाह बुद्धेरिति । बुद्धेः प्रत्यक्त्वं देहाद्यपेक्षं “य आत्मा सर्वान्तर” इति श्रु तेरात्मनः प्रत्यक्त्वं स्वाभाविकमाकाशस्य सुषिरत्ववादित्यर्थः ॥ १८ ॥ इदानीं तयोबदृत्वे विशेषमाह बोट्टत्वमिति । बुद्धेबदृत्वं बोधक र्तृत्वोपाधिकम् । आत्मनस्तु स्वभाव एव नान्योपाधिकमित्यर्थः । अत्र दृष्टान्तः तिष्ठन्तीव महीभृत इति । जङ्गमेषु प्राप्तगतिनिवृत्त्यपेक्षया ति