पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


 न कस्याश्चिदवस्थायां बोधप्रत्यक्षकयोर्भिदा ।
 व्यभिचारोऽथवा दृष्टो यथाहंतद्विदोः सदा ॥ १४ ॥
यस्मादज्ञानोपादानाया एवं बुद्धेभेदो नात्मनस्तस्मादे
 कूटस्यबोधतोऽद्वैतं साक्षात्खं प्रत्यगात्मनः ।
 कूटस्यबोधाइोडूी धीः स्वतो हीयं विनश्वरी ॥ १५ ॥
अथाधुना प्रकृतस्यैव परिणामिनः कूटस्यस्य च लक्षणमूच्यते ।
 विशेषं कञ्चिदाश्रित्य यत्स्वरूपं प्रतीयते ।
 प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥ १६ ॥


दृष्टान्तमाह यथाहंतद्विदोरिति । यथाहङ्कारतत्साक्षिणोर्जडाजडत्वेन भास्यभासकत्वेन भेदो यथा च सुषुप्यादौ साक्षिणि विद्यमानेऽप्यहङ्कारस्य व्यभिचारस्तथा न बोधप्रत्यक्त्वयोरित्यर्थः ॥ १४ ॥

 उत्तरञ्ठीवेकेन फलितं कथयतीत्याह यस्मादिति । प्रत्यगात्मनः कूटस्थबोधस्वभावात्सर्वधीष्वेकत्वं सर्वत्रापरोक्षस्वभावत्वं च सिद्धमित्यर्थः । यद्धा । साक्षात्वमद्वितीयत्वं द्वितीयश्शून्यत्वं सिद्धं कूटस्थबोधत्वेन द्विर्थः। ननु बुद्धेर्वोदृत्वेऽपि द्वैतसम्बन्धवदात्मनोऽपि द्वैतसम्बन्धः किं न स्यादित्याशङ्कय मैवं तस्याः स्वतोबोदृताभावादित्याह कूटस्थबोधादिति । बुद्वेबदृत्वं कूटस्थबोधप्रसादादेव न स्वत इत्यर्थः । कुत एतदित्याह स्वतो हीति । अनित्यत्वान्न नित्यबोधात्मकत्वमित्यर्थः ॥ १५ ॥

 एवं परिणामिनाहङ्कारेण कूटस्थात्मा लक्ष्यत इत्युक्तं तयोर्लक्षणजिशासायां तदिदानीमुच्यत इत्याह अथाधुनेति । तत्र तावत्परिणामिनो लक्षणमाह विशेषमिति । घटं जानामि पटं जानामि सुख्यहं दुःख्यहमिति विशेषवत्वेऽपि य एवाहं दुःखी स एवाहमिदानीं सुखीति प्रत्य-