पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/११७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽध्यायः । अज्ञानं हि नाम ज्ञानाभावस्तस्य चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः सज्जन्मेष्यते “कुतस्तु खलु सोम्यैवं स्यादिति कथमसतः सज्जायेते'ति श्रुतेरिति । नस्यासिद्धमित्याह तस्य चेति । एतदुत्तरत्वेन श्लोकमवतारयति अत्रो च्यत इति । धमिग्रहणप्रतियोगिस्मरणलक्षणबुद्धिजन्मनः प्रागेव सुषुश्य वस्थायां सर्वार्थविषयमशानमनुभूयत एतावन्तं कालं न किंचिदशासि षमित्युत्थितस्य परामर्शदर्शनाद्ननुभूते च तद्योगाद्धर्मिमप्रतियोगि शानं विना ज्ञानाभावस्यानुभवितुमशक्यत्वादुत्थितस्य च ज्ञानाभावा नुमानस्य लिङ्गाभावात्स्मरणाभावस्य चानैकान्तिकत्वेनालिङ्गत्वाद्रावरू पमझानमित्यर्थः । तज्ञानस्य सर्वार्थविषयत्वाङ्गीकारादात्मैकविषयत्वं पूर्वोक्तकमपगतमित्यत आह एकेनैवेति । नामरूपात्मकप्रपञ्चलक्षणः सर्वो ऽर्थः प्रलय इव सुषुप्तावज्ञातसन्मात्रावशेषं प्रलीयते ततश्च प्रबोधसमये पुनरुन्द्रवतीति हि वेदान्तसिद्धान्तः । “यदा सुषुप्तः स्वमं न कंचन प श्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वेनमभिः सहाप्येती'- त्यारभ्य “स यदा प्रतिबुध्यते यथाग्रेज्र्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्रा णेभ्यो देवा देवेभ्यो लोका' इति स्वापप्रबोधयोः प्रलयप्रभवश्रवणात्क ल्पितस्य च द्वैतस्य शुक्तिरजतादेरिव प्रतिभासमात्रशारीरस्य प्रतिभास दशायां स्वकल्पनाधिष्ठानसन्मात्रातिरेकेण स्वरूपेणावस्थानासम्भवाञ्च । तथा च सुषुप्तिदशायामेकेनैव सता सर्वस्य सत्त्वं स एव च सन्ननादे रज्ञानस्य विषयावकाङ्गस्वभावस्य विषयस्ततोऽन्यस्य तत्कल्पितस्य तद्वि षयत्वानुपपत्तेस्ततः सन्नेव सुषुप्तावज्ञात इत्यात्मैकविषयत्वमशानस्य नापगतमित्यर्थः । यद्वा । जाग्रद्दशायामपि सर्वोऽथ घटपटादिलक्षणः स्वबुद्धिजन्मनः प्रागज्ञात इत्यर्थस्य संप्रतिपन्नत्वादर्थस्य च ज्ञातत्वे प श्चात्तद्विषयज्ञानोदयायोगाज्ज्ञानानुदयसद्भावे चार्थस्य व्यवहार्यतास म्भवात्सामान्यावकारेण झातत्वेऽप्यझातावकारस्य ज्ञातत्वायोगाद्शाता