पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


ष्वनामस्वात्मेति निःसन्धिबन्धनं मिथ्याज्ञानमज्ञानं तनिबन्धनो ह्यात्मनोऽनेकार्थसम्बन्धस्तस्य चान्वयव्यतिरेकाभ्यामेव निरस्तावान्निर्विषयं तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष महिमा योऽयमात्मानात्मनोविभाग इति तिान्नराकरणायदमुच्यत ।
 भेदसंविदिदं ज्ञानं भेदाभावश्य साक्षिणि ।
 कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥ ६ ॥
ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चिात् । मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावाकिं वाक्येन निवत्यैते ।


तस्मिन्नर्थे सांख्यानां चोद्यमुत्थापयति अत्रेति । निःसन्धिबन्धनमिति । अहमिल्यैक्यप्रातिपदिकार्थत्वेन ज्ञानं तदेव मिथ्याविषयत्वान्मिथ्याज्ञानं तदेव चाज्ञानं नान्यद्नाद्यस्तीत्यर्थः । अनर्थहेतुतया प्रसिद्धमझानमन्यदस्तीत्यत आह तन्निबन्धन इति । अस्त्वेवं ततः किमित्यत आह तस्य चेति । अतो निर्विषयत्वपरिहारायान्वयव्यतिरेकाभ्यां सहितस्य मिथ्याझाननिरसनेनात्मानात्मविवेककरण वाक्यस्य कृत्यं नानाद्यज्ञाननिरसनमिल्याह तस्मादिति । इदानीमेतदुत्तरत्वेन श्लोकमवतारयति तन्निराकरणायेति । यदिदमात्मानात्मविवेकविज्ञानं तद्वेदसंविदेद्प्रमितिफलम् । एकधैवानुद्रष्टव्यमित्यादिना च साक्षिणि वाक्यतात्पर्यविषये भेदाभावः श्रुश्रूयते तस्मादिदं विवेकविज्ञानं भेदशशून्ये वस्तुनेि भेदज्ञानत्वादविद्याकार्य भ्रमरूपं ततश्च तन्न वाक्यजन्यं तस्माद्वाक्यं ज्ञात्मनाद्वितीयबोधाकारवृत्तिद्धारेण ज्ञात्मतावन्मात्रतया सकार्यमेतदज्ञानं याजयेन्निवर्तयतीत्येतदाह भेदसंविदिति ॥ ६ ॥

 अनाद्यग्रहणव्यतिरेकेण भावरूपानाद्यविद्या न विद्यत इति चोद्यान्तरमुत्थापयति ज्ञात्मनेति । अनर्थहेतुतया निवर्तनीयत्वमप्यात्माझा-