पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०८
नैषधीयचरिते

कारिण्यां सत्यां प्रियां प्रतीत्यूचे । इति किम्-हे भैमि, अहं दुर्विनीते दुष्टे नितरां विश्वासघातिन्यौ अमू सख्यौ गृहाद्बहिः कुर्वे निष्कासयामि भणाज्ञापय । एतेन नलस्य संभोगेच्छुता व्यज्यते । तदर्थमेव कुर्व इति लट् । 'व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च' इत्यभिधानादूर्ध्वकर्मत्वाभावात् 'उदोऽनूर्ध्वकर्मणि' इति तङ्। व्युत्तिष्टमानायां विरोधाचरणे कृतोद्यमायां वा ॥


शिरःकम्पानुमत्याथ सुदत्या प्रीणितः प्रियः ।
चुलुकं तुच्छमुत्सर्प्य सख्योः सलिलमक्षिपत् ॥ १२५ ॥

 शिर इति ॥ अथोक्तविषयप्रश्नानन्तरं सुदत्या भैम्याः शिरःकम्पेन या सखीनिष्कासनस्यानुमतिरनुज्ञा तया कृत्वा प्रीणितो जनितानन्दः प्रियः सख्योर्विषये तुच्छं रिक्तं चुलुकमुत्सर्प्योद्यम्य वरुणवरेण प्राप्तं सलिलं तन्निष्कासनार्थमक्षिपत् । सख्योर्दुष्टत्वाच्छिरःकम्पेन भैम्या तद्बहिः करणमङ्गीकृतम् । नलस्तु स्वाशयानुसारेण भैम्यपि संभोगेच्छयैवैताः बहिः कर्तुमिच्छति मत्संभोगोनुमतोऽस्या इति संतुष्टः, अत एव तन्निर्गमनार्थं जलं निक्षिप्तवानिति भावः । शिरःकम्प एवानुमतिर्यस्यास्तया सुदत्येति वा ॥

तच्चित्रदत्तचित्ताभ्यामुच्चैः सिचयसेचनम्।
ताभ्यामलम्भि दूरेपि नलेच्छापूरिभिर्जलैः ॥ १२६ ॥

 तदिति ॥ तुच्छचुलुकमोचनमात्रेण जलसेचनात् तेन नलेन चित्रे आश्चर्ये दत्तं स्थापितं चित्तं ययोस्ताभ्यां सखीभ्यां तुच्छं चुलुकं नलेच्छामात्रेण पूरयन्ति सर्वमाप्लावयन्ति तच्छीलैः परिपूर्णतरैर्जलैः कृत्वा उच्चैर्नितरां सिचयस्य वस्त्रस्य सेचनमार्द्रीभावः अलम्भि प्रापि॥

वरेण वरुणस्यायं सुलभैरम्भसां भरैः ।
एतयोः स्तिमितीचक्रे हृदयं विस्मयैरपि ॥ १२७ ॥

 वरेणेति ॥ अयं नलः वरुणस्य वरेण सुलभैरनायासलभ्यैरम्भसां भरैः पूरैः, तथाकस्मिकतद्दर्शनप्रभवैर्विस्मयैराश्चर्यैरपि कृत्वा एनयोः सख्योः क्रमेण हृदयमुरःस्थलमान्तरं च स्तिमितीचक्रे पूर्वमनार्द्रमप्यार्द्रं चक्रे, तथा-अनिश्चलमपि निश्चलीचक्रे । नीरपूरसेकेनातितरां साश्चर्ये जाते इत्यर्थः । 'तिम ष्टिम आर्दीभावे॥

तेनापि नापसर्पन्त्यौ दमयन्तीमयं ततः।
[१]हर्षेणादर्शयत्पश्य नन्विमे तन्वि मे पुरः ॥ १२८ ॥
क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रवजितीकृते ।
सख्यौ सक्षौमभावेपि निर्विघ्नस्तनदर्शने ॥ १२९ ॥


  1. हस्तेनेति पाठे-कुचदर्शनोपलक्षकपाणिचेष्टाभिनयेन' इति कलिकतामुद्रितटीकायामधिकम् ॥