पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०७
विंशः सर्गः।

कर्णे कर्णे ततः सख्यौ श्रुतमाचख्यतुर्मिथः ।
मुहुर्विस्मयमाने च स्मयमाने च ते बहु ॥ १२० ॥

 कर्ण इति ॥ ततः स्ववञ्चकत्वदोषपरिहारानन्तरं भैमीसुरतप्रागल्भ्ये मुहुर्विस्मयमाने आश्चर्यं कुर्वाणे च बहु नितरां स्मयमाने हसन्त्यौ च ते कलाकलासखीलक्षणे सख्यौ मिथो भैम्या वा सहचर्यौ मिथोन्योन्यस्य कर्णे कर्णे स्वस्वश्रुतं स्वरहस्यमाचख्यतुः। चावन्योन्यसमुच्चये । अन्योन्यकर्णापेक्षया वीप्सायां द्विर्वचनम् ॥

अथाख्यायि कलासख्या कुप्य मे दमयन्ति मा ।
कर्णाद्द्वितीयतोऽप्यस्याः संगोप्यैव यदब्रवम् ॥ १२१ ॥

 अथेति ॥ अथान्योन्यकर्णे तद्रहस्यकथनानन्तरं कलायाः सख्या कलयैव सख्या वा भैमी आख्यायि इति उक्ता । हे दमयन्ति, त्वं मे मां मा कुप्य । अहं यदब्रवं तदस्याः द्वितीयतोऽपि कर्णात्संगोप्यैवाब्रवम् । अस्या एकेन कर्णेन श्रुतं नतु द्वितीयेनेति लौकिकादाभाणकात्परिहासोऽपि । 'एवम्' इति पाठे-एवंप्रकारेण संगोप्येति । कुप्य मे 'क्रुधद्रुह-' इति संप्रदानत्वम् । मा निरनुबन्धकः । अब्रवम् , लङ् ॥

प्रियः प्रियामथाचष्ट दृष्टं कपटपाटवम् ।
वयस्ययोरिदं तेऽस्मान्मा सखीष्वेव विश्वसीः ॥१२२ ॥

 प्रिय इति ॥ अथ सख्युक्त्यनन्तरं प्रियः प्रियामाचष्ट इत्यूचे । इति किम्- हे भैमि, त्वं वयस्ययोः कपटपाटवमिदं वचनचातुर्यं दृष्टमनुभूतं यतः, तस्मात्सखीष्वेव मा विश्वसीः, किं तु मयि कदाचिद्विश्वसिहि। सखीषु मैव विश्वसीः, किंतु मय्येवेति वा । यद्वा-मा विश्वसीरेव ॥

आलापि कलयापीयं पतिर्नालपति क्वचित् ।
रहस्येऽसौ रहस्यं तत्सभ्ये विस्रभ्यमीदृशि ॥ १२३॥

 आलापीति ॥ कलयापीयं भैमी मधुरकाकूक्त्या आलापि इत्युक्ता । इति किम्-हे वयस्ये, असौ तव पतिः क्वचिदपि देशे जने वा त्वद्रहस्यं नालपति, किंतु गोपायत्येव । तत्तस्मादीदृशि एतत्सदृशेऽन्यस्मिन्नपि सभ्ये साधौ विस्रभ्यं विश्वसनीयं त्वया किं पुनरेतस्मिन्निति विरुद्धलक्षणया-अयं सर्वस्याग्रे त्वद्रहस्यं प्रकटयत्येव,असभ्यश्चायमित्यस्मिन्नेतत्तुल्येऽन्यस्मिन्नपि मैव विश्वसीरिति । नालपति, अपित्वालपति । विस्रभ्यमपि तु नेति काकुर्वा । 'अलापि' इत्यपि क्वचित्पाठः॥

इति व्यत्तिष्ठमानायां तस्यामूचे नलः प्रियाम् ।
भण भैमि बहिः कुर्वे दुर्विनीते गृहादमू ॥ १२४॥

 इतीति ॥ नलः तस्यां कलायां इत्युक्तप्रकारेण प्रतिवन्द्या व्युत्तिष्ठमानायां प्रतिरोध-