पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२५
अष्टादशः सर्गः।


 लाक्षयेति ॥ कुपितभैमीप्रसादनार्थं चरणे पतनाभ्दैम्याः पद्मिनीत्वात्पङ्कजासनबन्धेन सुरतारम्भवशाद्वात्मचरणस्य लाक्षया चुम्बनात्संबन्धाद्धेतोश्चारु भालं ललाटं यस्यैवंभूतं तस्य नलस्य मुखमवलोक्य निजसुरतधार्ष्ट्यस्मरणजातया ह्रिया हेतुना नतनतं नतप्रकारमाननं यस्याः सैवंभूता सती उदितं प्राप्तोदयम्, उदयानन्तरं च कालक्रमापचीयमानः शेषः कियदवशिष्टो रागो लौहित्यं यस्य तं निशो राज्याः पतिं चन्द्रमस्मरत्। तन्मुखं ताहगभूदित्यर्थः । ईषदवशिष्टरक्तिमचन्द्रदर्शने यथा प्रीतिर्भवति, तथा ताहग्मुखदर्शनेपि तस्याः प्रीतिर्जातेति भावः । नतनतेति प्रकारे द्विरुक्तिः। पतिं कर्मत्वविवक्षया षष्ठ्यभावः॥

खेदभाजि हृदयेऽनुबिम्बितं वीक्ष्य मूर्तमिव हृद्गतं प्रियम् ।
निर्ममे धुतरतश्रमं निजैर्हीनतातिमृदुनासिकानिलैः ॥ १२६ ॥

 स्वेदेति ॥ ललाटलाक्षादर्शनसंजातनिजसुरतधाष्टर्यस्मरणवशाड्रिया नता सा स्वेदभाजि श्रमजलयुते स्वहृदयेऽनुबिम्बितं प्रियं नलं मूर्तं साकारं हृद्गतं चित्तस्थमिव वीक्ष्य निजैरतिमृदुभिर्विश्रान्तिक्लममन्दीभूतैर्नासिकानिलैः कृत्वा धुतोऽपनीतो रतश्रमो यस्यैतादृशं निर्ममे चकार। लज्जानम्रत्वान्नासाश्वासानां हृदयप्रतिबिम्बितप्रियसंबन्धाच्छ्रमापनोदनं युक्तम् । निर्मम इवोत्प्रेक्षा वा । तादृशीं तां दृष्ट्वा स गतश्रमः सहर्षः संजातः; सापि तं तादृशं दृष्ट्वा हर्षवशान्मन्दतरान्नासाश्वासान्मुमोचेति भावः॥

सूननायकनिदेशविभ्रमैरप्रतीतचरवेदनोदयम् ।
दन्तदंशमधरेधिगामुका सास्पृशन्मृदु [१] चमच्चकार च ॥ १२९ ॥

 सूनेति ॥ सूननायकस्य कामस्य निदेश आज्ञा तस्य विभ्रमैर्विलासैर्हेतुभिरप्रतीतचरः पूर्वं संभोगवेलायामज्ञातो वेदनोदयः पीडोद्भवो यस्मात्तं दन्तदंशमधरेऽधिगामुकाधुना पीडाकारिणं ज्ञातवती सा मृद्वनिष्ठुराङ्गुलीस्पर्शं यथा तथा दन्तदष्टाधरमेवास्पृशत् । अनन्तरं च स्पर्शजपीडानुभवाञ्चमञ्चकार ससीत्कारमङ्गकम्पमपि चकार । आकस्मिकतयैव किमेतत्कदा जातमिति साश्चर्या चाभूत् । दन्तदंशं 'न लोका-' इति षष्ठीनिषेधः॥

वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसार्जितमुरोजयोरियम् ।
कान्तमैक्षत हसस्पृशं कियत्कोपकुञ्चितविलोचनाञ्चला [२] ॥१३०॥

 वीक्ष्येति ॥ इयं प्रेयसा नलेन उरोजयोरुपरि बुद्धिपूर्वमर्जितं कृतं करजस्य नखस्य विभ्रमं कोपसंभ्रमवशाद्वीक्ष्य वीक्ष्य वारं वारं विलोक्य, अनन्तरमेव कियत्किंचित्कोपेन कुञ्चितावुन्मील्य मुकलितौ पर्यायेण विलोचनाञ्चलौ नेत्रपल्लवौ यया एवंभूता सती स्वयंकृतत्वात्संभोगसमये तया ज्ञातत्वाच्च हसस्पृशं श्रितसितं कान्तमैक्षत । को-


  1. 'चमत्कृता कियत्' इति जीवातुसंमतः पाठः ।
  2. 'कोपसंकुचितलोचनाञ्चलाम् इति जीवातुसंमतः पाठः।