पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२६
नैषधीयचरिते

पेन वक्रमपश्यदित्यर्थः । कोपस्याल्पत्वेनोत्तमत्वं धीरत्वं च भैम्या व्यज्यते । वीक्ष्य संभ्रमे द्विरुक्तिः। हसस्पृशं 'स्पृशोऽनुदके-' इति क्विन् ॥

रोषरूषितमुखीमिव प्रियां वीक्ष्य भीतिदरकम्पिताक्षराम्।
तां जगाद स न वेद्मि तन्वि तं कश्चकार तव कोपरोपणाम् ॥ १३१ ॥

 रोषेति ॥ स रोषरूषितं कोपयुक्तं मुखं यस्यास्तामिव दन्तदंशादेः सुखकारित्वेन तत्वतः कोपरहितत्वेऽपि कृत्रिमकोपेन भृकुटितमुखीं प्रियां वीक्ष्य भीत्या दरमीषत्कम्पितानि सगद्रदान्यक्षराणि यस्यां क्रियायां तद्यथा तामिति जगाद । इति किम्-हे तन्वि, अहं तं न वेद्मि , कस्तव कोपरोपणां चकार । 'ब्रूहि शास्मि तव कोपरोपिणम्' इति पाठे-कोपस्य रोपिणमाधायकम् । 'न वेद्मि' इत्यात्मनः कोपरोपित्वं गोपायति॥

रोषकुङ्कुमविलेपनान्मनाग्नन्ववाचि कृशतन्ववाचि ते ।
भूदयुक्तसमयैव रञ्जना मानने विधुविधेयमानने ॥ १३२ ॥

 रोषेति ॥ पुनरपि, इति किम्-ननु कृशतनु अवाचि कोपवशादभाष्यभाषणे, तथा--अवाचि नम्रीभूते, तथा--विधुनापि विधेया गुणाधिक्यवशात्कार्या मानना पूजा यस्यैवंभूते चन्द्राधिके तबानने रोषरूपेण कुङ्कुमेन विलेपनाद्धेतोर्मनागल्पीयसी इयं रञ्जना रक्तिमसंपादना मा भूत् न कार्या । यस्मादयुक्तसमयैवाप्रस्तावसमुद्भूतैव । किमपि मया नापराद्धमिति निर्हेतुकेयमनुचिता कोपरञ्जना त्यज्यतामित्यर्थः । अथ च--अयं संभोगसमयो रात्रिरियं, नतु कोपरञ्जनासमयः, तस्मादन्यदा कोपः कार्यों, अधुना तु त्यज्यतामित्यर्थः । अथ च-चन्द्राधिकं तव मुखम् , इदानीं रोषरूषितं सन्यूनं भविष्यतीत्ययुक्तसमया रञ्जना न कार्या कोपस्त्यज्यतामित्यर्थः । अथ च-कोपकुङ्कुमविलेपनरञ्जनाऽयुक्तसमया । यतः, तस्मान्नैव कार्या । शीतकाले झुष्णवीर्यतया वदनप्रसाधनं कुङ्कुमविलेपनं युक्तम् , इदानीं वसन्तजेन श्रमजेनोष्मणा श्रीखण्डपाण्डिमैवाननप्रसाधनायालम् ,न कुङ्कुमरञ्जनेत्यर्थः ॥

क्षिप्रमस्यतु रुजा नखादिजास्तावकीरमृतसीकरं किरत् ।
एतदर्थमिदमर्थितं मया कण्ठचुम्बि मणिदाम कामदम् ॥१३३॥

 क्षिप्रमिति ॥ हे भैमि, कण्ठचुम्बि मम कण्ठे स्थितं, तथा--कामदमिच्छादायि, एव एतदर्थं त्वदीयकरजरदनक्षतजपीडापाकरणार्थ भैमीकरजादिक्षतपीडापनोदनं कुविति मयाऽर्थितं प्रार्थितं सदिदं चिन्तामणिरत्नानां दाम मालामृतसीकरं सुधाबिन्दुं किरस्त्नवत्सत् तावकीस्त्वदीया नखादिजा नखक्षतादिसमुद्भवा रुजाः पीडाः क्षिप्रमस्यतु । शमयत्वित्यर्थः । तस्मात्कोपं मा कार्षीरिति भावः । अर्पितमिति पाठे-पीडाशान्त्यर्थं मया त्वदीयकण्ठे क्षिप्तं सत्त्वदीयकण्ठचुम्बीति व्याख्येयम् । रुजा भिदादित्वादङ्॥[१]


  1. भूषित' इति जीवातुसंमतः पाठः ।