पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८६
नैषधीयचरिते

लागमनमार्गे तता विस्तारिताः शैलजा हिमवत्समुद्भूतमालत्यादिमाला यासु । अतिस्नैग्ध्यसौगन्ध्यार्थं पूर्वं कुङ्कुमकस्तूरीलेपः कृतः, अनन्तरं च तत्पङ्कस्पर्शभिया कर्पूरजलैः क्षालनं कृतम् , तेन पङ्को गतोऽधिकं च सौगन्ध्यं जातम् , अनन्तरं च भैमीनलचरणयोर्मुदुतरत्वान्मणिबद्धभूकाठिन्यपरिहारार्थं मृदुतरशैलजप्रक्षेप इति । पाठक्रमादर्थक्रमो बलीयानिति पूर्व कर्पूरोदकैः क्षालिताः पश्चाद्गोमयस्थानीयकुङ्कुमकस्तूरीपङ्केन कृताङ्गोद्वर्तनाः, अनन्तरं च धृतशैलेयमाला धृतसुन्दरमणिखचित(मणि)भूषणाः सत्यः शुशुभिर इति वा । 'यत्र' इत्यपि पाठः । 'वालुकांशुभिः' इति पाठे-शुभ्रकर्पूरचूर्णैः क्षालिताछुरिताः कृतरङ्गमालिका इत्यर्थः। अत्र शाब्दोपि क्रमो घटते । लेपिता ण्यन्तान्नि[१]ष्ठा॥

नैषधाङ्गपरिमर्दमेदुरामोदमार्दवमनोज्ञवर्णया।
यद्भुवः क्वचन सूनशय्यया[२]भाजि भालतिलकप्रगल्भता ॥४॥

 नैषधेति ॥ वचन नलनिद्रास्थान देशे सूनशय्यया पुष्परचितास्तरणेन यस्य सोधभूधरस्य संबन्धिन्या भुवो भूमेर्भालस्य ललाटस्य तिलकस्तस्य प्रगल्भता रमणीयतामाजि धृता । पुष्पशय्या यद्भूमेर्ललाटतिलक इव रेज इत्यर्थः । कीदृश्या-नलाङ्गस्य परिमर्दैन संस्पर्शेन वरुणस्य वरदानसामर्थ्यान्मेदुरो नितरामधिकीभूत आमोदः सौरभं मार्दवं मनोज्ञः सदैवाम्लानत्वात्सुन्दरो वर्णश्च यस्यास्तया। तिलकोपि कस्तूर्यादिनिमितत्वात्सुगन्धिः सुवर्णश्च भवति । अथच-यद्भूसंबन्धिनि क्वचन देशे नलाङ्गसंबन्धेनामोदादियुक्तया पुष्पशय्यातुल्ययाऽतिमृद्व्या भैम्या भालतिलकेन या प्रगल्भता प्रकाशमानता सा अभाजि भञ्जिता । संभोगवशात्तिलकस्य मृष्टत्वादित्यर्थ इति वा । अभाजि पक्षे 'भञ्जेश्च चिणि' इति <ref> निदर्शनालंकार इति जीवातुः।<ref> नलोपः॥

क्वापि यन्निकटनिष्कुटस्फुरत्कोरकप्रकरसौरभोर्मिभिः ।
सान्द्रमाद्रियत भीमनन्दनानासिकापुटकुटीकुटुम्बिता ॥ ९ ॥

 क्वापीति ॥ क्वापि क्वचित्प्रदेशे यस्य सौधस्य निकटे निष्कुटे गृहारामे स्फुटन्तो विकसन्तः कोरकप्रकरा मल्लिकादिकलिकासमूहास्तेषां सौरभोर्भिभिः सौगन्ध्यपरम्पराभिर्भीमनन्दनाया नासिकापुटकुटी नासिकापुटरन्ध्ररूपमल्पगृहं तत्र कुटुम्विता पुत्रकलत्रादिसहावस्थायिता सान्द्रं नितरामाद्रियताङ्गीकृता । अल्पगृहे बहुकुटुम्बो यथा संमर्दैन वसति, तथा भैमीनासिकायां तैरुषितमित्यर्थः । वनोपान्तेषु दत्तदृष्टिर्भैमी सकलपुष्पपरिमलं यत्र प्रत्यहमन्वभूदिति भावः । अथच-भैमीनासापुटकुट्या कुटुम्बिता सादृश्यं धृतम् । कुटुम्बिनो हि सजातीया भवन्ति । अमीनासाश्वाससौरभतुल्यता यन्निकटवर्तिवनपुष्पसौरभैर्धृतेत्यर्थः ॥


  1. 'समृद्धिमद्वस्तुवर्णनादुदात्तालंकारः' इति जीवातुः
  2. 'यान्ति भालतिलकप्रगल्भताम्' इति पाठे-
    'यस्य भूमयः सूनशय्यया कृत्वा भालतिलकप्रगल्भतां यान्तीत्यर्थः इति सुखावबोधा