पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८७
अष्टादशः सर्गः।


ऋद्धसर्वऋतुवृक्षवाटिकाकीरकृतसहकारशीकरैः।
यज्जुषः स्म कुलमुख्यमाशुगः माणवातमुपदाभिरञ्चति ॥ १० ॥

 ऋद्धति ॥ आशुगो वायुः ऋद्धाः फलपल्लवादिसमृद्धिमन्तः सर्वऋतुवृक्षा वसन्तादिसकलर्तुसंबन्धिन आम्रादयो वृक्षा यस्यांसा,ऋद्धाः सर्वे ऋतवः सर्वे वृक्षाश्च यस्यां वा तस्यां वाटिकायां कीरैः शुकैश्चञ्चपुटैः कृत्वा कृत्तानि खण्डितानि यानि सहकाराणामाम्रवृक्षाणां पुष्पाणि फलानि वा तेषां शीकरैर्मकरन्दबिन्दुभिनिर्यासबिन्दुभिर्वोपदाभिस्तद्रूपैरुपहारैः कृत्वा यज्जुषो यत्सौधसेविनो नलस्य भैम्या वा यस्य कस्यापि वा प्राणवातं नासाश्वासरूपं प्राणाख्यं वायुं, यज्जुषो यत्संबन्धी वा वायुरर्थाद्भैमीनलयोरन्यतरस्य वाञ्चति स्मापूपुजत् । उपहारैरुपतिष्टते स्मेति वा । यस्मात्-कुलमुख्यं पञ्चवायुमध्ये प्राणस्यादिभूतत्वात्कुलवृद्धम् कुलवृद्धश्च तदीयैः पूज्यते । आम्रशीकरानानयन्वायुर्यत्सेविनं जनं सुखयति स्मेत्यर्थः । सहकारशीकरैरित्यनेन वायोः शैत्यसौगन्ध्ये, अञ्चतीत्यनेन च मान्द्यं सूचितानि । सर्वऋत्वित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । सहकारेत्यत्र पुष्पे फले वा प्रत्ययस्य 'पुष्पमूलेषु-' इति लुप् । 'फले लुकू' इति वा लुक् । यज्जुष इति क्विबन्तात्षष्ठी, पक्षे इगुपधात्कः॥

कुत्रचित्कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल ।
कुत्रचिद्रचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः ॥११ ॥

 कुत्रेति ॥ यः सौधः कुत्रचित्क्वचित्प्रदेशे कनकेन निर्मितमखिलं मूर्धाधोभागादि यस्यैवंविधः क्वापि विमलै रत्नैर्जातो रचितः। तथा -कुत्रचिद्रचिताश्चित्रशाला उपरितनोत्तमगृहविशेषाः पुत्रिका वा यत्र । रचितेन चित्रेण शालते तच्छीलो वा । क्वापि चास्थिराभिरव्यवस्थिताभिर्भावधाभिः प्रकाशान्धकारादिरूपैः प्रकारैः कृत्वा ऐन्द्रजालिकोनेकचमत्कारकारी । शालिकेति शालाशब्दात्स्वार्थे संज्ञाद्यर्थे वा कनि 'प्रत्ययस्थात्कात्इतीत्त्वम् । पक्षे-ताच्छील्यणिन्यन्तात्स्वार्थे कन् । पेन्द्रजालिकः 'शिल्पम्' इति ठक् । 'विधा विधौ प्रकारे च' इत्यमरः॥

चित्रतत्तदनुकार्यविभ्रमाधाय्यनेकविधरूपरूपकम् ।
वीक्ष्य यं बहु धुवञ्शिरो जरावातकी विधिरकल्पि शिल्पिराट् ॥

 चित्रेति ॥ यं सौधं वीक्ष्याश्चर्यातिशयाद्बहु वारंवारं शिरः धुवन्कम्पयशिल्पिनामतिचमत्कारिनानावस्तुनिर्माणनिपुणानां राट् राजा श्रेष्ठो विधिर्ब्रह्मा विश्वकर्मा वा जरया वृद्धत्वेन वातकी वातरोग्यकल्पि तर्कितो देवादिभिरिति शेषः। किंभूतम्-चित्र आलेख्ये चित्राण्याश्चर्यरूपाणि वा तेषां तेषामनुकार्याणामभिनेयानां देवर्षिमनुष्यादीनां विभ्रमं विलासं विशिष्ट तत्तद्भान्तिं वाधायीन्युत्पादयन्त्येवंभूतानि शुक्लनीलपीतादिवर्णवशात्काष्ठपाषाणरूप्यस्वर्णादिघटितत्वाद्वानेकविधरूपाणि नानाप्रकारस्वरू- पाणि रूपकाणि प्रतिमा यत्र । चित्रमाश्चर्यं तन्वन्ति विस्तारयन्ति चित्रतन्ति तादृशा-