पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७५
सप्तदशः सर्गः।


 कम्रमिति ॥ स तत्र पुरे उपनम्राया उपासकस्य समीपमागत्य स्थितायाः स्वजातीयाया विजातीयाया गम्याया अगम्याया वा विश्वस्याः सर्वस्याः स्त्रियाः कम्रं कामुकं तां संभुञ्जानं कंचन नरं वीक्ष्य अयं महापातकी ममाश्रयो भविष्यतीति बुद्ध्या तुष्टवान् । अथ पश्चाद्विचारणायां क्रियमाणायां तं कम्रं वामदेवेन मुनिना दृष्टं ब्रह्मसाम 'कयानश्चित्र:-' इत्यादि वामदेव्यं नाम साम तस्य ब्रह्मविद्याया अभ्युपासकं विभाव्य मत्वा मम्लौ दुःखितोऽभूत् । 'वामदेव्योपासने सर्वाः स्त्रिय उपसीदन्ति' इति श्रुतिः । 'दृष्टं साम' इत्यर्थे 'वामदेवाड्ड्यड्डयौ' इति ड्यः॥

वैरिणी शुचिता तस्मै न प्रवेशं ददौ भुवि ।
न वेदध्वनिरालम्बमम्बरे विततार वा ॥ १९५ ॥

 वैरिणीति ॥ शुचिता लोकानां बाह्याभ्यन्तरशुचिता मनःशुद्धिर्गोमयाद्यनुलेपनजनिता च शुचिता भुवि प्रवेशं तस्मै न ददौ । यस्मादशुचेस्तस्य वैरिणी। नगरमध्ये सर्वेषां जनानां भूमेश्च शुचित्वात्स्थातुं नाशकदित्यर्थः । तथा-वेदध्वनिरम्बरे शब्दाश्रये नगसंबन्ध्युपरितनाकाशदेशे आलम्बमाश्रयं न विततार । अम्बरस्य वेदध्वन्याश्रयत्वात्तत्रापि स्थातुं नाशकदित्यर्थः। वा समुच्चये । अन्योपि वैरिणे स्थानं न ददाति ॥

दर्शस्य दशनात्कष्टमग्निष्टोमस्य चानश ।
जुधूर्णे पौर्णमासेक्षी सोमं सोमन्यतान्तकम् ॥ १९६ ॥

 दर्शस्येति ॥ स दर्शस्याग्निष्टोमस्यामावास्यायागस्य दर्शनात्कष्टं महद्दुःखमानशे प्राप । तथा-पौर्णमासयागमीक्षते एवंशीलः सन् जुघूर्णे बभ्राम तद्दर्शनेन मुमूर्छेत्यर्थः । सोमयागं त्वन्तकमेवामन्यत । तद्दर्शनान्मरणमेवान्वभूदित्यर्थः । अन्यस्यापि ज्वरादिपीडा, ***, अनन्तरं च मरणं भवति ॥

तेनादृश्यन्त वीरघ्ना न तु वीरहणो जनाः ।
नापश्यत्सोभिनिर्मुक्ताञ्जीवन्मुक्तानवैक्षत ॥ १९७ ॥

 तेनेति ॥ तेन कलिना वीराञ्शूरान्घ्नन्तीति क्षात्रधर्मजीविनो धार्मिका अदृश्यन्त । वीराञ्श्रेष्ठानाचारवतो घ्नन्तीति वीरहणो जना न दृष्टाः । शूरा एव यैर्हन्यन्ते, न तु सदाचाराः । तादृशा महावीरा एव तत्र तेन दृष्टा इत्यर्थः । यद्वा-वीरयते शूरो भवति वीरोऽतितेजस्वी वह्निस्तं घ्नन्त्युपेक्षया नाशयन्तीति वीरहणो नष्टाग्नयस्ते पुनर्न दृष्टाः। सर्वोपि गृहस्थः साग्निक एव तत्रेत्यर्थः । तथा-सोऽभिनिर्मुक्तान्येषु सुप्तेषु सूर्योस्तमेति तादृशान्सूर्यास्तमयसमये निद्रिताननाचारांस्तत्र नापश्यत् । किंतु-जीवन्तश्च ते मुक्ताश्च तान्विषयपरित्यागिनो ब्रह्मज्ञानिनोऽवैक्षत । वीरघ्ना वीरहननयोग्या दृष्टा, न तु ये वीरान्हतवन्तस्ते दृष्टाः । वीरमारणमपि तत्र राष्ट्रे न क्रियत इत्यर्थ इति वा। 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च । अंशुमानभिनिर्मुक्ताभ्युदितौ तु यथाक्रमम्' इत्यमरः । वीरघ्नाः मूलविभुजादित्वात्कः ॥