पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७४
नैषधीयचरिते

 जपतामिति ॥ स जपतां नराणामक्षमालासु पद्माक्षरुद्राक्षादिमणिनिर्मितजपमालिकासु वर्तमानानां पद्माक्षादिबीजानां जपगणनार्थमाकर्षणं तस्य दर्शनाद्धेतोर्जीवानां प्राणानामाकृष्टिराकर्षणं तया जातानि कष्टानि दुःखान्यन्वभूत् । यस्माद्विपरीतदृक् विरुद्धदर्शी सर्वहितं धर्ममहितत्वेन जानानस्तादृग्धर्मदर्शनमात्रेण महद्दुःखमन्वभूदित्यर्थः । अथ च-विपरीतदर्शनशीलत्वाद्वीजेत्यत्र व्यञ्जनमात्रव्यत्ययेन, बवयोः सावर्ण्येन च जीवेति भवतीति जीवाकृष्टिकष्टानुभवनं युक्तम् ॥

त्रिसंध्यं तत्र विप्राणां स पश्यन्नघमर्षणम् ।
वरमैच्छद्दृशोरेव निजयोरपकर्षणम् ॥ १९१

 त्रिसंध्यमिति ॥ स तत्र त्रिसंध्यं प्रातर्मध्याह्नसायाह्नरूपं संध्यात्रयमभिव्याप्य विप्राणामघमर्षणम् 'ऋतं च-' इति ऋग्भिर्नासास्पर्शाभिमन्त्रितं चुलुकोदकं तत्प्रक्षेपोदकं वा पश्यन्निजयोर्दृशोरपकर्षणमुन्मूलनमेव वरं श्रेष्ठमित्यैच्छत् । मदीयनेत्रे यदि कोप्युदमूलयिष्यत् , तर्ह्येरतद्दुःखमूलं नाद्रक्ष्यत । तस्मान्नेत्रोन्मूलनमेव वरमिति मेन इत्यर्थः । तदपि दृष्ट्वा दुःखितोऽभूदिति भावः । अघमर्षणदर्शनव्यथा नेत्रापकर्षणव्यथातुल्या। त्रिसंध्यमत्यन्तसंयोगे द्वितीया ॥

अद्राक्षीत्तत्र किंचिन्न कलिः परिचितं क्वचित् ।
भैमीनलव्यलीकाणुमश्नकामः परिभ्रमन् ॥ १९२ ॥

 अद्राक्षीदिति ॥ भैमीनलयोर्व्यलीकस्यानृतस्याणु दोषलेशमपि प्रश्नकामः प्रष्टुं वाञ्छन् । अत एव तत्र पुरे कथकस्वमित्रगवेषणार्थं परिभ्रमन्परितो विचरन्स कलिः क्वचिदपि स्थाने किंचिदपि स्वस्य परिचितं जिनक्षपणादिमित्रं नाद्राक्षीत् । नलेन भैम्या वा तत्रत्येन जनेन वा कृतेषु क्वचिदपि केषुचिदपि महापातकोपपातकादिषु मध्ये किंचिदपि परिचितपातकं नादाक्षीत् । त्वया भैमी नलोऽत्रत्यलोको वा स्पृष्टः किम्' इति कलिर्यत्पृच्छति । तदेकमपि पापं नास्त्येवेति भाव इति वा ॥

तपः स्वाध्याययज्ञानामकाण्डद्विष्टतापसः।
स्वविद्विषां श्रियं तस्मिन्पश्यन्नुपतताप सः ॥ १९३ ॥

 तप इति ॥ पञ्चाग्निसाधनादि तपः, वेदपाठरूपः स्वाध्यायः, देवतोद्देशेन द्रव्यत्यागो यागो यज्ञः, एषां स्वस्य पापरूपत्वाद्विद्विषां वैरिणां तस्मिन्पुरे श्रियं समृद्धि बाहुल्यं पश्यन्नकाण्डं निष्कारणमेव द्विष्टास्तापसो येन स कलिरुपततापातिदाहमापातिदुःखितोऽभूदित्यर्थः । अन्योपि स्ववैरिलक्ष्मीं पश्यन्नुपतप्यते । यज्ञापेक्षया स्वाध्यायस्याभ्यर्हितत्वात्पूर्वनिपातः॥


कम्रं तत्रोपनमाया विश्वस्या वीक्ष्य तुष्टवान् ।
स मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् ॥ १९४ ॥