पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५१
सप्तदशः सर्गः।


व्याख्यान्तरेण सूचितमिति ज्ञेयम् । नागेष्वित्यादौ 'षष्ठी चानादरे' इति सप्तमी । अववरत्,'वर ईप्सायाम्' इति चुरादावदन्तपाठात्स्वार्थणिजन्ताद्वरयतेश्चङ्यग्लोपित्वात्स न्वद्भावाभावादित्वदीर्घत्वाभावः॥

 किमिति ते परित्यक्ता इत्याशङ्कायां कारणमाहुः-

भुजगेशानसद्वेशान्वानरानितरान्नरान् ।
अमरान्पामरान्भैमी नलं वेद गुणोज्ज्वलम् ॥ १२० ॥

 भुजगेशानिति ॥ भैमी भुजगेशान्वासुकिप्रमुखान्फणागणजिह्वालालनादिवैरूप्यादसद्वेशानमनोहराकारान्वेद जानाति । तथा -इतरान्नलादन्यान्नरान्मनुजाधीशांश्चापल्यनिर्गुणत्वाभ्यां वानरान्वेद । तथा-अमरानचतुरत्वात्पामरान्नीचान्वेद । केवलं नलमेव गुणोज्ज्वलं श्रुतवीर्यौदार्यसौन्दर्यादिभिः प्रकाशमानं वेद । सर्वगुणाकरत्वान्नल एव तया वृतोऽन्ये तु परित्यक्ता इत्यर्थः । 'विवर्णः पामरो नीचः' इत्यमरः । वेदेतीदानीमपि तथैव प्रतीतेः सत्त्वाद्वर्तमानता, विभक्तिप्रतिरूपको निपातो वा । तथा चाज्ञासीदित्यर्थः॥

इति श्रुत्वा स रोषान्धः [१]परमश्चरमं युगम् ।
जगन्नाशनिशारुद्रमुद्रस्तानुक्तवानदः ॥ १२१ ॥

 इतीति ॥ चरममन्त्यं युगं स कलिः इतीन्द्रादिवचनं श्रुत्वा परमोऽत्युत्कृष्टो रोषान्धो रोषान्नितरां निर्विचारतया पुरःस्थमपि वस्त्वजानन् , अत एव-जगन्नाशसंबन्धिनी निशा । यस्यां निशि जगन्नाशो भवतीति यावत् । तत्संबन्धी प्रलयकाले सकलभूतग्रासलालसा-संपन्नो रुद्रस्तद्वन्मुद्रा आकारो यस्य । क्रोधवशान्नितरां विकृताकार इति यावत् । एवंभूतः संस्तान्सुरानदो वक्ष्यमाणमुक्तवान् ॥

 'पुनर्वक्ष्यसि मा मैवम्' इत्यादेरुत्तरमाह-

कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम्।
कलिस्तु चरतु ब्रह्म प्रैतु वातिप्रियाय वः ॥ १२२ ॥

 कयेति ॥ हे देवाः, ब्रह्मा कयाप्यतिसुन्दर्या गायत्र्यादिपदवाच्यया । अज्ञातनामजातिगोत्रया वा । अथच-अगम्यत्वाद्यस्या नामकथनेप्यस्माकं लज्जा भवति तया सुतया । सह सुखेन क्रीडतु । तथा-यूयं स्वयमात्मना दिव्याः स्त्रीः स्वर्गभवाः रम्भादीः । अहल्यामुख्या वा । रमणीर्दीव्यत स्वेच्छया ताभिः सह सुरतक्रीडां कुरुत । 'प्रजापतिः स्वां दुहितरमभ्यधावत्' इति श्रुत्या ब्रह्मणः स्वाच्छन्द्याद्भवतां सुतरां स्वाच्छन्द्यमिति स्वयमित्यनेनोक्तम् । कलिस्तु पुनर्ब्रह्मचर्याख्यं व्रतं यावज्जीवं चरतु। वा अथवा जीवन्कलिरस्मानुपहसिष्यतीत्यनेन न जीवितव्यमिति वो युष्माकमति


  1. 'परमम्' इति तु युक्तः पाठः । तत्र परमं रोषान्ध इति योज्यम् इति सुखावबोधा।