पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५०
नैषधीयचरिते


बन्धकत्वाद्वक्ष्यसीति वचेर्लट् । मामेति निषेधातिशयार्थं वीप्सायां द्विरुक्तिः॥ परमे स्थाने तिष्ठतीति 'परमे स्थः कित्' इतीनिः, स च कित्, तत आलोपः । 'अम्बाम्ब-' इति सूत्रेण षत्वम् । तत्रैव 'परमेवर्हिर्-' इति निपातनादेदन्तत्वम् । 'नैष्ठिको ब्रह्म- चारी तु वसेदाचार्यसंनिधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा।' इति स्मृतेः॥

द्रोहिणं द्रुहिणो वेत्तु त्वामाकर्ण्यावकीर्णिनम् ।
त्वज्जनैरपि वा धातुः सेतुर्लङ्घयस्त्वया न किम् ॥ ११७ ॥

 द्रोहिणमिति ॥ द्रुहिणो ब्रह्मा त्वामवकीर्णिनं क्षतव्रतमाकर्ण्य निजाज्ञाभङ्गाद्रोहिणं गुरुद्रोहिकारिणं वेत्तु । एवं त्वया कृते ब्रह्मा एवं ज्ञास्यतीति यावत् । वाथवा तेन ज्ञातेपि तव किं भयमिति सोपहासमाह-त्वज्जनैस्त्वदुपजीविभिः कामक्रोधादिभिरपि धातुः सेतुर्ब्रह्मकृता धर्ममर्यादा लङ्घयः । त्वया ([१] पुनः) किं न लङ्घयः । त्वदीयाः सेवका अपि ब्रह्माज्ञां लङ्घयन्ति, त्वं लङ्घयसीति किमाश्चर्यमित्यर्थः । यद्वा-त्वज्जनैरपि सेतुर्न लङ्घयः, त्वया न लङ्घय इति किं वाच्यम्, तदाज्ञालङ्घनमनौचित्यान्न कार्यमित्यर्थ इति काक्वा । 'धातालयोनिर्द्रुहिणः-' इत्यमरः । द्रुह्यत्यसुरेभ्यः । औणादिकः किनः॥

 स्वयंवरं प्रत्यगमने हेत्वन्तरमपि ब्रुवते-

अतिवृतः स वृत्तान्तस्त्रिजगद्युवगर्वनुत् ।
आगच्छतामपादानं स स्वयंवर एव नः ॥ ११८ ॥

 अतीति ॥ एकं विना सर्वपरित्यागोत्रिजगत्सु वर्तमानानां तरुणानां सौन्दर्यादिविषयं गर्व नुदति नुत्नाशकः स वृतान्तो भैमीस्वयंवरोऽतिवृत्तोऽतिक्रान्तः संजात इत्यर्थः। भवद्भिः कथं ज्ञातमित्यत आहुः स स्वयंवर एवागच्छतां नोऽस्माकमपादानं निश्चलोऽवधिभूतोर्थ इत्यर्थः । वयमपि तत्र गतास्तत एवागच्छाम इति सर्वोपि वृत्तान्तो ऽस्माभिर्जायत इत्यतोपि त्वया न तत्र गन्तव्यमिति भावः। वि<ref> अपाये यदुदासीनं चलं वा. यदि वाचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते।' इति हर्युक्तेः ।/<ref> श्लेषे चञ्चलं स्थिरं वायदुदासीनं तदपादानमिति वैयाकरणाः॥

 कथं यूनां गर्वनोदः, को वा तया वृत इत्याशङ्कायामाहुः-

नागेषु सानुरागेषु पश्यत्सु दिविषत्सु च ।
भूमिपालं नलं भैमी वरं साववरद्वरम् ॥ ११९ ॥

 नागेष्विति ॥ नागेषु वासुकिप्रभृतिषु सानुरागेष्वस्मदादिषु दिविषत्सु देवेषु च पश्यत्सु सानुरागां भैमीं स्वीयार्तिद्योतनपूर्वं विलोकयत्सु सत्सु । अथवा-अस्मदन्येषु देवेषु सानुरागेष्वस्मदादिषु कौतुकवशादेव पश्यत्सु । तान्सर्वाननादृत्य सा भैमी नागाद्यपेक्षया वरं सर्वगुणाश्रयत्वाच्छ्रेष्ठं भूमिपालं सार्वभौमं नरं नृवरं वरं परिणेतारमववरद्वरयामास । सर्वानादरेण नलवरणात्सर्वेषां सौन्दर्यादिदर्पो गत इत्यर्थः। पश्यत्सु दिविषत्स्वित्यनेनास्माभिः कौतुकार्थं वरदानार्थमेव च गतम्, नतु तद्वरणार्थमिति च


  1. 'त्वया तु किम्' इति पाठे त्वया पुनर्लङ्ग्य इति किं वाच्यम् इति सुखावबोधा।