पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७०
नैषधीयचरिते

स्तुमत्ता प्रकृष्टेन कृष्टता । तेनोह्यमानता वा भवति । एवं कुबेरदृष्टान्तबलेनाग्र एतस्य पुष्पकप्रकृष्टता भविष्यतीत्यनुमीयते । यतोऽस्यापि कुबेरस्य नलकूबराख्येनान्वयेन संतानेन पुत्रेण प्रकाशिता प्रकटिता शोभिता प्रसूतवत्ता जनयितृता इतिसाधर्म्यदृष्टान्तः श्लेषबलेन । अनुमानं त्वेवम्-विमतो महारथः पुष्पकप्रकृष्टो भवितुमर्हति नलकूबरान्वयप्रकाशितप्रसूतवत्त्वात् । यो यो नलकूबरान्वयप्रकाशितप्रसूतवत्तावान्स स पुष्पकप्रकृष्टः यथा कुबेर इत्यनुमानवशादेतत्सर्वमुच्यत इति यथाकथंचिल्लोको व्याख्येयः । प्रकृष्टः सूतः पुत्र इति वा । पुष्पकस्य नलः सारथिर्नास्ति (इति) तेन तुल्यता नास्ति । किंतु तत्पतिना कुबेरेणेति । अस्य तु नलः सारथिरित्ययं रथो रमणीय इति भावः ।

 युगंधरः' इत्यमरः[१]

महेन्द्रमुच्चैःश्रवसा प्रतार्य यन्निजेन पत्याऽकृत सिन्धुरन्वितम् ।
स तद्ददेऽस्मै हयरन्तमर्पितं पुराऽनुबन्धुं वरुणेन बन्धुताम् ॥२५॥

 महेन्द्रमिति ॥ सिन्धुः समुद्रः नाम्ना उच्चैःश्रवसा । अथ च-उन्नतकर्णेन सलक्षणेन। अथज-दीर्घकर्णेन दुर्लक्षणेन । अश्वेन महेन्द्रं प्रतार्य यद्धयरत्नं निजेन पत्या स्वस्वामिना वरुणेनान्वितं युक्तमकृत । वरुणायादत्तेत्यर्थः । स भीमस्तदश्वरत्नमस्मै नलाय ददे । अनेन कथं लब्धमित्यत आह-किंभूतम्-वरुणेन बन्धुतामलीकमैत्रीमनुवन्धुं वर्धयितुं पुरा दूतीप्रेषणावसरेऽर्पितं भीमाय दत्तम् । उच्चैःश्रवसोप्यधिकमश्वं तस्मै ददाविति भावः॥

जवादवारीकृतदूरदृक्पथस्तथाक्षियुग्माय ददे मुदं न यः ।
ददद्दिदृक्षादरदासतां यथा [२] तयैव तत्पांसुलकण्ठनालताम् ॥२६॥

 जवादिति ॥ योऽश्वो लोकानामक्षियुग्माय नेत्रद्वयाय दिदृक्षायाः स्वीयरूपदर्शनेच्छाया आदरस्तस्य दासतां वशत्वं ददद्ददानः पारवश्यं कुर्वञ्जवाद्धेतोरवारीकृतोर्वाक्तीरीकृतो दूरो बहुयोजनो दृक्पथो नेत्रपथो येन । दूरं गतत्वान्नेत्रयोरविषय इति यावत् । एवंविधः सन् यथा नेत्रयुगाय मुदं प्रीतिं न दे । दर्शनाभावात्प्रीतिं नोत्पादितवानित्यर्थः। तथा पुनरागमनसमयेऽपि तयैव दिदृक्षादरदासतया तस्य नेत्रयुगस्य पांसुलं रेणुयुक्तं कण्ठनालं यस्य भावस्तत्ता तां लक्षणया उत्कण्ठितत्वं ददत् मुदं न ददे । तमश्वं दद इति पूर्वेण संबन्धः । यथातथाशब्दौ व्यत्यस्तो योज्यौ । रूपादिविलोकनकौतुकिभिः यावदश्वो द्रष्टुमारब्धः, तावद्वेगवशाद्दूरं गतत्वान्न दृष्टः । इदानीं यद्यपि न दृष्टः, तथापि व्याधुट्यागमनेऽवश्यं द्रक्ष्याम इति बुद्ध्या व्यापारान्तरत्यागपुरःसरं तद्रूपादिविशेषदर्शनादरान्नेत्रे प्रसार्य तत्रैव यावत्स्थिताः, तावत्पुनरागमनसमयेऽपि खुरपुटक्षुण्णक्षोणीरेणुसबन्धान्न दृष्टः, तथापि दर्शनाभावादुत्कण्ठाया अपरिपूर्णत्वान्नेत्रयुगस्य हर्षों नाभूदित्यर्थः । जवादप्रतिषिद्धो दूरो दृक्पथो येन । अतिदूरं नेत्राभ्या-



  1. अत्रानुमानालंकारः ।..." हेतुत्वेन तर्कानुमानेन वैलक्षण्यम् । रूपकं च । प्रसूतवत्तादिप्रकाशितैः तत्प्रकाशितेति श्लिष्टरूपकं द्रष्टव्यम् इति जीवातुः
  2. ' तृषैव' इति प्राचीनलिखितपुस्तकपाठः ।