णामुरोजपत्रावलिः कस्तूरिकालिखितस्तनपत्रवल्ली नेत्रकज्जलं च एते इव बभतुः शुशु भाते। किंभूते-रणस्थले या स्थण्डिलशायिता । व्रतवशाद्यो वेदिकायां शेते स स्थण्डिलशायी तद्भाव एव व्रतं तत्र विषये गृहीता दीक्षा यैः स्वीकृतनियमविशेषेण भूपतितैः शत्रुभिर्दक्षिणीकृते बताङ्गदक्षिणात्वेन शरूयै दत्ते । दीक्षोपदेशिने हि स्त्रीणामलंकारादि दक्षिणात्वेन दीयते । छुरिकयैव स्वकृतमारणद्वारा शत्रूणां रणस्थलस्थण्डिलशायिताव्रतमुपदिष्टम् , तस्मात्तस्यै ते दक्षिणात्वेन दत्ते पत्रवल्लीकज्जले इव । लोहमुद्रश्यामवर्णौ स्तनपत्रवल्लीनेत्रकज्जलत्वेनोत्प्रेक्षितौ । इयं छुरिका निश्चितपरविदारणा । वैरिनार्यश्च वैधव्यात्त्यक्तकज्जलपत्रावल्य इत्यर्थः । स्थण्डिल एव प्रतवशाच्छेत इति । 'सुप्यजातौ णिनिस्ताच्छील्ये' इत्यनुवृत्तौ 'व्रते' इति णिनिः॥
पुरेति ॥ तस्य भीमस्य सुतायामभिकेनानुरागिणा | तथा-'भैमी दातव्येति वुक्ष्यायं न प्रेषितः किंतु शत्रुभराक्रान्तभूभारनिराकरणद्वारा त्वमस्माकं सुहृदिति प्रेषित इति सौहार्दं स्नेहं नाटयति एवंशीलेनाग्निना पुरैव दूतीप्रेरणावसर एव यो रथस्तस्मिन्भीमे समदेशि प्रेषितो दत्तः। नृपो नलाय तं रथं विश्राणयति स्म । किंभूतम्-सुलङ्जया अनायासेनातिक्रमणीया अद्रयोऽत्युञ्चपर्वताः, समुद्राः, कापथा विषमा निम्नगर्तरूपा मार्गाश्च यस्य । सर्वत्र संचरणसमर्थम् । 'कदध्वा कापथः समौ' इत्यमरः। कापथ इति 'का पथ्यक्षयोः' इति कादेशः। 'ऋक्-' आदिना समासान्तः।
तमेव वर्णयति-
प्रसूतवत्ता नलकूबरान्वयप्रकाशितास्यापि महारथस्य यत् । |
प्रसूतेति ॥ अस्यापि भीमेन नलाय दत्तस्यापि महतो जवादिगुणयुक्तस्य रथस्य प्रकृष्टा सूतवत्ता सूतो विद्यते यस्य स सूतवान्तद्भावः सूतवत्ता सारथिमत्ता । प्रकृष्टश्चासौ सूतश्च तद्वत्ता वा । यद्यस्मान्नलस्य कूबरेण युगंधरेण सह योऽन्वयः संबन्धः। नलेन सह वा यः कूबरस्यान्वयः। तेन प्रकाशिता प्रकटीकृता शोभिता च । ततस्तस्माद्धेतोरेतस्य महारथस्य पुष्पकवत्कामगामिधनदविमानवत्प्रकृष्टतोत्कृष्टगुणयुक्तता । पुष्पकात्सकाशाद्वा जवादिगुणैरधिकता। कुबेरस्य दृष्टान्त उदाहरणं तस्य बलेन सामर्थ्येनानुमीयतेऽनुमानजन्यज्ञानस्य विषयीक्रियते । न केवलं कुबेरस्य महारथस्य, किंत्वस्थापीति समुच्चयेन व्याप्तिप्रदर्शनपुरःसरमुपनयनिगमने सूचयत्यपिशब्दः । कुबेरस्यापि महारथस्यायुतसंख्ययोधस(ह)युध्वनः (त्व) पुष्पकविमानेन कृत्वा प्रकृष्टता प्रकृष्टव-