पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५८
नैषधीयचरिते


स्त्रीपुंसति ॥ स्त्रीपुंसयोः सर्वयोर्व्यतिषञ्जनं विशेषेणातितरां संमेलनं जनयतः कुर्वतः प्रजानां पत्युब्रह्मणः पुनः पुनः संयोजनशिक्षणलक्षणोऽभ्यासोऽनयोर्नलभैम्योर्दाम्पत्यसंपत्तये जायापतिभावस्योत्कर्षाय परिपाकिमः परिपाकेन निवृत्तः स्वारस्येन परिणतपाकोऽभूत्किम् । सर्वस्त्रीपुंसयोजनाभ्यासोऽत्युत्तमानुरूपैतदुभयसंघट्टने फ- लितः किमित्यर्थः । तथा-चेतोभुवः कामस्यापि आसंसार संसारं मर्यादीकृत्य सर्गादिमारभ्य प्रलयपर्यन्तं पुरन्ध्रिपुरुषयोः स्त्रीपुंसयोर्मिथः प्रेमान्योन्यमनुरागस्तस्यार्पणमासञ्जनं तदेव सदा मनोविनोदनरूपा क्रीडा लीला तयापि एतज्जम्पत्योरनयोर्नलभैमीरूपयोर्दम्पत्योर्गाढस्येन्द्रेणाप्यनपनेयस्य मिथोऽनुरागस्य रचनाजननाद्धेतोः प्राकर्षि प्रकृष्टकाष्ठापन्नया जातम् । अनुरागजननक्रीडायाः प्रकर्षोऽत्रैव विश्रान्तः उत्तरत्राप्यवमनुरागस्याभावादित्यर्थः। एतादृशौ सरूपौ चान्यौ स्त्रीपुंसौ कालत्रये नस्त इति भावः।व्यतिषञ्जनम् , 'उपसर्गात्सुनोति-' इति षत्वम् । परिपाकिमः, 'भावप्रत्ययान्तादिमप्' इति वक्तव्यादिमप् । जम्पती, जायाया जंभावः॥

ताभिदृश्यत एष यान्पथि महाज्यैष्ठीमहे मन्महे
 यद्दृग्भिः पुरुषोत्तमः परिचितः प्राग्मञ्चमञ्चन्कृतः ।
सा स्त्रीराट्पतयालुभिः शितिसितैः स्यादस्य दृक्त्चामरैः
 सस्ने माघमघातिघातियमुनागङ्गौघयोगे यया ॥ ८९ ॥

 ताभिरिति ॥ महत्या अतिप्रसिद्धाया ज्येष्ठानक्षत्रयुक्ताया ज्यैष्ठपूर्णिमायाः संबन्धिनि मह उत्सवे । महत्यतिप्रसिद्ध वा ज्यैष्ठीमहे । यद्दग्भिर्यासां नेत्रैः प्राग्जन्मान्तरे । अथच-अन्यापेक्षया प्रथमम् । मञ्चं पर्यङ्कमञ्चन्प्राप्तो मञ्चस्थो मार्गे गच्छन् श्रीपुरुषोत्तमः परिचितो बहुवारं दृष्टः कृतस्ताभिरेव स्त्रीभिः पथि वरयात्रायां यान्रथस्थ आगच्छन्नेष नलो दृश्यते । एतादृक्पुण्यं याभिरस्मादृशीभिरर्जितं ताभिरेवायं द्रष्टुं शक्यो नत्वन्याभिरित्यर्थः । अथच-याभिः पुरुषोत्तमो दृष्टस्ताभिरेव तत्तुल्योयमपीति ज्ञातुं शक्यते, नत्वन्याभिरित्यर्थः । ताभिरेव साभिलाषं कटाक्षौर्दृश्यते, याभिरेवं सुकृतं कृतम् । अन्याभिस्तु कौतुकेनापि वीक्षितुं न शक्यः, किं पुनः सानुरागं कटाक्षैरिति । 'ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा । पूर्णिमा ज्येष्ठमासस्य महाज्यैष्ठीति कीतिता'इति । पुरुषोत्तमतुल्योऽयमिति मन्महे । जानीमह इति भावः । वाक्यार्थः कर्म । उत्कलदेशे ज्यैष्ठपूर्णिमायामिन्द्रनीलगिरिनिवासिनः श्रीपुरुषोत्तमस्य महोत्सवः क्रियते । तत्र श्रीकृष्णबलभद्रप्रमुखप्रतिमाधिष्ठिता विरचितसप्तभूमिका मञ्चाः पृथक् निगच्छन्ति । तस्य दर्शनं भूयसे श्रेयसे भवतीति पौराणिकाः। यदाहुः-'दोलारूढं तु गोविन्दं मञ्चस्थं मधुसूदनम् । रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते॥' इति । तथायया स्त्रिया अघातिघातिनि पातकविनाशिनि यमुनागङ्गौघयोर्योगे संगमे प्रयागाख्ये माघं सस्ने मकरस्थे रवौ माघे मास्यविच्छेदेन स्नानं कृतं, सास्य नलस्य पतयालुभिरतिचञ्चलैः शितिसितैः कृष्णधवर्दृक्वामरैनेत्रैरेव चामरैर्नेवव्यापाररूपैश्चामरैः स्त्रीराट् स्त्रीराजैव स्याद्भवेदिति मन्महे । राजा हि कृष्णधवलैश्चामरैर्वीज्यते । प्रयागे माघस्नानज-