पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५७
पञ्चदशः सर्गः।


द्यस्ति, अपितु-अनिरूपणान्नास्त्येव । एतस्यास्तु भैम्याः पुना रसानां शृङ्गारादीनामेव रसानां जलानां धुनी नदी तस्याः पात्रे स्थानभूते । अथच-रसनदीप्रवाहरूपे गुणशीलादिचरित्रे विषये कैः पराशरव्यासशुकादिभिः काव्यं न करिष्यते, अपितु तै- रपि भारतादौ तद्वर्णनकाव्यं करिष्यते, किं पुनः श्रीहर्षादिकविभिरित्यर्थः । इन्द्रवरणेन यद्यपि स्वर्गसुखप्राप्तिस्तथापि तत्पत्नीत्वाच्छचीत्वेऽपि तस्याः कुत्रचित् केनाप्यवर्णितत्वात् । इन्द्रापेक्षयाधिककीर्तेर्नलस्य वरणे पुण्यश्लोकत्वात्सर्वैरपि वर्णनीयत्वात्तत्प्रसङ्गात्स्वस्यापि वर्णनीयत्वान्महती कीर्तिर्भविष्यति । सा च स्वर्गमुदः सकाशाच्छ्रेयसी । इति विचार्य इन्द्रपरित्यागद्वारा स्वर्गसुखमपि परित्यज्य भैम्या नलो वृत इति युक्तकारित्वादेतादृशी कापि विदुषी नास्तीति भावः । 'दिवः' इति पाठे स्वर्गसुखादित्यर्थः । करिष्यते ऋदन्तत्वादिट्र ॥

वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहश्रिया
 नेत्राभ्यां स्वदते युवायमवनीवासः प्रसूनायुधः ।
गीर्वाणालयसार्वभौमसुकृतप्राग्भारदुष्पापया
 योगं भीमजयानुभूय भजतामद्वैतमद्य विषाम् ॥ ८७ ॥

 वैदर्भीति ॥ हे सख्यः, अवन्यां वासः स्थितिर्यस्य सः प्रसूनायुध इव कामरूपोऽयं नलनामा युवा तरुणो देहश्रिया कायकान्त्या कृत्वा पश्यन्तीनामस्माकं नेत्राभ्यां स्वदते रोचते । किंभूतया वैदर्भ्या बहुजन्मभिरनेकजन्मसु वा निर्मितस्य कृच्छ्रचान्द्रायणादिजन्यस्य तपसः सुकृतस्य शिल्पेन फलभूतया । अतिसुन्दरममुं प्रीत्यास्मन्नेत्रे पश्यत इत्यर्थः । विशिष्टया देहश्रियोपलक्षितो वा । अशरीरोपि भैमीपुण्यबाहुल्यवशात्सशरीर: काम इवेति भाव इति वा । सोयं नल:(अद्य) भीमजया सह योगं दाम्पत्यसंबन्धमनुभूय त्विषां कान्तिभराणामन्यत्रात्यन्तासत्त्वेनाद्वैतं सामस्त्यं भजतामाश्रयतु । उभयोरेकर मेलनायमेव कान्तीनामाश्रयः कान्तिस्वरूपो वा भवतु नान्य इत्यर्थः । किंभूतया-गीर्वाणालये स्वर्लोके सार्वभौम इन्द्रस्तस्य सुकृतप्राग्भारः पुण्यराशिस्तेनापि दुष्प्रापयालभ्यया । शतमखीजन्येन पुण्येन स्वर्गचक्रवर्तित्वं येन लब्धं तेनापि दुष्प्रापत्वाद्भैम्याः सौभाग्यातिशयो नलस्य चन्द्रापेक्षया सौभाग्यातिशयः पुण्यातिशयश्च 'गीर्वाणालय-' इत्यादिना सूचितः। अन्योऽप्यष्टाङ्गयोगमनुभूय बहुपुण्यदुष्प्रापयापि भीमाद्धराजातया ईश्वरप्रसादलब्धया विद्ययाद्वैतं परमात्मस्वरूपं भजति। नेत्राभ्याम् 'रुच्यर्थानाम्-' इति संप्रदानत्वम् । प्राग्भारदुष्प्रापयेति 'तृतीया' इति योगविभागात्समासः॥

स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभू-
 दभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसंपत्तये ।
आसंसारपुरंध्रिपूरुषमिथः प्रेमार्पणक्रीडया-
 प्येतज्जम्पतिगाढरागरचना प्राकर्षि चेतोभुवः ॥८८॥