पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४१
पञ्चदशः सर्गः।

 निवेशितमिति ॥ तदीयोधरोष्टस्तस्य सीमनि ऊर्ध्वदेशे यावकस्यालक्तकस्य रागो लोहितिमा तस्य दीप्तये प्रकाशनाय निवेशितं न्यस्तं यच्चानेन लगत्संलग्नं सिक्थकं मधूच्छिष्टं स्वस्य जनकानि मधूनि हीनरसतया परित्यज्य माधुर्यातिशयात्सुधाया अमृतस्य सधर्मणि तुल्यायां तत्रैवाधरसीम्नि निवस्तुं नित्यं स्थातुमुत्सुकमुत्कण्ठितमिव रराज । सुधया सिक्थकस्य कदाचिदप्यसंबन्धात्तधरलतां परित्यक्तुमशक्तमिव तत्रैव स्थितमित्यर्थः । प्रसाधिका अलक्तकस्य स्थित्यर्थमधरे सिक्थकं निवेशयन्ति । अधरस्य मधुनोऽधिकत्वं सूचितम् । अन्यदपि हीनमाश्रयं परित्यज्योत्तममाश्रयति । लुप्तोत्प्रेक्षा । सधर्मा 'धर्मादनिच् केवलात्' इत्यनिच् ‘समानस्य छन्दसि-' इत्यत्र योगविभागात्समानस्य सादेशः । सुधावत्समानो धर्मो यस्याः सा सधर्मा तस्याम् , 'मनः इति न ङीप् ॥

 कण्ठप्रसाधनमाह-

स्वरेण वीणेत्यविशेषणं पुरास्फुरत्तदीये खलु कण्ठकन्दली।
अवाप्य तन्त्रीरथ सप्त मुक्तिकासरानराजत्परिवादिनी स्फुटम् ॥४४॥

 स्वरेणेति ॥ तदीया कण्ठ एव कन्दली अतिसौकुमार्यादिगुणत्वादृढोद्गतप्रथमाङ्कुरदण्डोतिमधुरेण स्वरेण पुरा पूर्वमविशेषणं विशेषणरहितं यथातथा सामान्येन वीणेत्येव खलु निश्चितमस्फुरदभासत,नतु रुद्रवीणादिबहुवीणाभेदेषु विशिष्टतया इयमिदंसंज्ञेत्यर्थः । अथालंकारसमये सप्त मुक्तिकासरान्सूत्रप्रोतमौक्तिकहारानेव तर्जनीमध्यमध्यमाभिधातोत्पद्यमानध्वनिव्यञ्जितपञ्चमादिरागाः पट्टसूत्रादिरचितसप्ततन्त्रीरवाप्य 'विपञ्ची, सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरवचनात्स्फुटं प्रकटं परिवादिनी इति विशिष्टसंज्ञा सती अराजदशोभत । स्फुटमुत्प्रेक्षायां वा । वीणाभ्योपि मधुर स्वरा कण्ठकन्दली सप्तसरमुक्ताहारालंकृता चेति भावः ॥

 भुजप्रसाधनमाह-

उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया।
विरेजतुर्माङ्गलिकेन संगतौ भुजौ सुदत्या वलयेन कम्बुनः॥४५॥

 उपेति ॥ मङ्गलं प्रयोजनमस्य मङ्गलार्थं रचितेन कम्बुनः शङ्खस्य वलयेन कङ्कणेन संगतौ युक्तौ सुदत्या भैम्या भुजौ रराजतुः शुशुभाते । उत्प्रेक्षते-अप्रौढा बाला मृणालनाला तया विसदण्डेन ततो भुजाभ्यां सकाशान्मृदुत्वं शिक्षितुमुपास्यमानाविव सेव्यमानाविव । मृणालादपि कोमलतरौ भुजावित्यर्थः । गौडदेशे विवाहकाले वलयधारणमाचारः । बालेन चाभ्यासः सुकर इत्यप्रौढपदम् । 'नाला नालमथास्त्रियाम्' इत्यपि क्वचित्पाठान्महाकविप्रयोगान्नालाशब्दोऽप्यावन्तः । ततः 'आख्यातोपयोगे' इत्यपादानत्वम् । माङ्गलिकेन 'प्रयोजनम्' इति ठक् । रराजतुः 'फणां च सप्तानाम्' इत्येत्वाभ्यासलोपौ वैकल्पिकत्वान्न भवतः। क्वचित्तु 'विरेजतुः' इत्यपि पाठोऽस्ति॥