पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४०
नैषधीयचरिते

 विदर्भेति ॥ सरः नलं परं केवलं श्रेष्ठं वा लक्ष्यमवैक्षत । आगच्छन्तं प्रतीक्षितवानित्यर्थः । किंभूतः-विदर्भपुत्रीश्रवणयोरुपर्यवतंसिकाया मण्यो भूषणभूता माणिक्यादिरत्नखचितसुवर्णकम्बिकास्तत्संबन्धीनि माणिक्यादिरत्नानि तासां महस्तेजस्तदेव किंशुककार्मुकं पलाशकुसुमधनुस्तस्योदरे विषय उदीता समुत्पन्ना नेत्रयोरवतंसोत्पलयोश्च तद्रूपाणां चतुर्णां वाणानां संभृतिः सामग्री । नेत्ररूपाभ्यां वा नीलोत्पलाभ्यां वाणसामग्री । यस्य एवंविधः। चापे समारोपितबाण इत्यर्थः । स्वलंकृतकर्णकज्जलाञ्चितनेत्रसौन्दर्यविलोकनमात्रेण नलः कामपरो भविष्यतीति भावः । अवतंसिकापदेन श्रवणलब्धावप्यतिसंनिधिसूचनार्थं श्रवणपदप्रयोगः । युक्तलक्ष्यस्य स्मरणात्स्मरः॥

 श्लोकद्वयेन कुण्डलप्रसाधनमाह-

अनाचरत्तथ्यमृषाविचारणां तदाननं कर्णलतायुगेन किम् ।
बबन्ध जिवा मणिकुण्डले विधू विचन्द्रबुद्ध्या कथितावसूयकौ ॥

 अनाचरदिति ॥ सादृश्यात्स्फुरितया द्विचन्द्रबुद्ध्या द्वौ चन्द्राविति भ्रान्तिज्ञानेन एतौ द्वौ चन्द्रौ तवोत्कर्षं न सहेते इति भैम्यास्तदाननस्य वा पुरस्तादसूयकौ स्पर्धाकारिणौ कथितौ प्रतिपादितौ मणिकुण्डले रत्नखचिते सुवर्णताटङ्के एव विधू द्वौ चन्द्रौ जित्वा तदाननं कर्तृ कर्णलतायुगेन कृत्वा बबन्ध किम् । ननु द्विचन्द्रबुद्धेरेव स्वरूपेणासत्यत्वात्स्त्रीत्वाच्च तदुक्तेर्थे कथं तस्य प्रवृत्तिरित्याशङ्ख्याह-किंभूतम्-तथ्यमृषाविचारणामनया कथितं सत्यम् , असत्यं वेति विमर्शनम् अनाचरदकुर्वाणम् शोभासंपन्मदेन मत्तत्वादित्यर्थः । किं किमिति बबन्ध, धनुचितमेतत्कृतम् । यतः सत्यासत्यविचारणाभावादिति भाव इति वा । अन्योपि दुर्मदः सत्यासत्यविचारमकुर्वन्कस्यचिदसूयकस्य वचनादनपराधिनमपि कंचित्पाशादिना बध्नाति । चन्द्राकारे मणिताटङ्के तया धृत इति भावः ॥

अवादि भैमी परिधाप्य कुण्डले वयस्ययाभ्यामभितः समन्वयः ।
वदाननेन्दोः प्रियकामजन्मनि श्रयत्ययं दौरुधुरीं धुरं ध्रुवम ॥ ४२ ॥


 अवादीति॥कयाचिद्वयस्यया सख्या कुण्डले परिधाप्य कर्णयोर्निक्षिप्य भैमी अवादि इत्युक्ता । इति किम्-भैमि त्वदाननेन्दोराभ्यां कुण्डलाभ्यामभित उभयपार्श्वयोरयं समन्वयः समीचीनः संबन्धः प्रियस्य नलस्य कामो रत्यभिलाषस्तस्य जन्मन्युत्पत्तौ विषये दौरुधुरीं पूर्वापरराशिस्थगुरुशुक्रयोर्मध्यराशिस्थचन्द्रस्य दुरुधुराख्यस्य महायोगस्य संबन्धिनीं धुरं भारं ध्रुवं निश्चितमाश्रयतीति । ध्रुवमुत्प्रेक्षायां वा । दुरुधुराख्ये महायोगे जातः पुत्रादिर्यथा वृद्धि प्राप्नोति, तथा कुण्डलालंकृतमुखचन्द्रदर्शनमात्रेण नलस्य रमणाभिलाषो वृद्धिं प्राप्स्यतीति भावः । 'गुरुभार्गवयोर्योगश्चन्द्रेणैव यदा भवेत् । तदा दुरुधरायोगः-इति ज्योतिःशास्त्रादवगन्तव्यम् ॥

 अधरप्रसाधनमाह-

निवेशितं यावकरागदीप्तय लगत्तदीयाधरसीम्नि सिक्थकम् ।
रराज तत्रैव निवस्तुमुत्सुकं मधूनि निर्धूय सुधासधर्मणि ॥ ४३॥