पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३२
नैषधीयचरिते

मालत्यादिपुष्पाणां वासः, तथाऽधिवासनात्सुगन्धिद्रव्यैः परिमलारोपणान्मधुव्रतानामपि दत्तो विशिष्टो भ्रमो याभिः । सर्वदा मधुन्येव ये निवसन्ति तेषामपि अकृत्रिमाण्येवैतानि पुष्पाणीति (तेषामपि) दत्तभ्रान्तयः किमुतान्येषामिति मधुव्रतपदे- न सूचितम् । तथा-वस्त्रमयत्वादातपनिर्भया ऊष्मजम्लानिरहिताः । अस्त्री वितानमुल्लोचः' इत्यमरः । 'छिदा' आकालिकेति च पूर्ववत् ॥

विभूषणैः कञ्चुकिता बभुः प्रजा विचित्रचित्रैः स्नपितत्विषो गृहाः।
बभूव तस्मिन्मणिकुट्टिमैः पुरे वपुः स्वमुर्व्यां परिवर्तितोपमम् ॥ १५ ॥

 विभूषणैरिति ॥ तस्मिन्पुरे प्रजाः पौरा जानपदाश्च विभूषणैरलंकारैः कञ्चुकिता नानारत्नकान्तिच्छादितसर्वावयवाः सन्तो बभुः शुशुभिरे । तथा-वर्णमात्रकल्पितेषु निर्जीवेष्वपि रूपकेषु जीवद्भ्रमापादनादिचमत्कारकरणाद्विचित्रचित्रैराश्चर्यकारिभिः कुड्यलिखितनानावर्णरूपकैः स्वपितत्विष उज्वलीकृतदीप्तयो गृहा बभुः। एवं जंगमस्थावररूपान्यतया तथा मणिकुट्टिमैश्च मणिबद्धभूमिभिः कृत्वा उर्व्याः स्वं सहजं मृन्मयं वपुः केनापि ब्रह्मादिना परिवर्तिता उपमा यस्य तद्रूपान्तरं प्रापितमिव बभूव । पातालस्य रम्यतरत्वात्पातालमुपरि जातमिवेत्यर्थ इत्युत्प्रेक्षा। परिवर्तिता विनिमयिता उपमा उममानं स्वर्गादि येन । उपमानत्वेन प्रसिद्धस्य स्वर्गस्योपमेयत्वं कृतम् । स्वयं च तस्योपमानं जातमित्यर्थ इति वा । 'स्वरुर्व्याः' इति पाठे स्वर्गात्सकाशात्परिवर्तितोपममिव बभूवेत्यर्थः । मणिकुट्टिमैरुपलक्षिते पुरे वा । सर्वमपि तदा सालंकारं जातमिति भावः । कञ्चकस्तारकादिः॥

तदा निसखानतमां घनं घनं ननाद तस्मिन्नितरां ततं ततम् ।
अवापुरुच्चैः सुषिराणि राणिताममानमानद्धमियतयाध्वनीत् ॥ १६ ॥

 तदेति ॥ तदा नलागमनसमये तस्मिन्पुरे धनं कांस्यतालादिवाद्यं धनं निबिडं यथा तथा निसस्वान शब्दं चकार । तथा ततं वीणादिवाद्यं ततं विस्तृतं यथा तथा नितरां ननाद शब्दं चकार । तथा -सुषिराणि सच्छिद्राणि वंशादिवाद्यानि उच्चैर्नितरां राणितां शब्द(कृ)त्त्वं अवापुः । तथा-आनद्धं मुरजादिवाद्यमियत्तया इदंपरिमाण. त्वेनामानमपरिच्छेद्यं यथा तथाऽध्वनीत् । धनं दृढावयवं बहुसंख्यं वेति धनविशेषणं वा। तथा-ततं स्वरूपेण विस्तृतं बहुसंख्याकं वेति ततविशेषणं वा । तथा इयत्तया अमानं बहुसंख्यमित्यानद्धविशेषणं वा । चतुर्विधमपि वाद्यं तत्र वादितमित्यर्थः । 'ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्' इत्यमरः।राणिताम्-अवश्यं रणन्तीति 'आवश्यकाधमर्ण्ययोर्णिनिः' इति णिनौ राणीनि तेषां भावस्तत्ता ताम् । अध्वनाीत् 'अतो हलादेः' इति वृद्धिविकल्पः ॥

विपञ्चिराच्छादि न वेणुभिर्न ते प्रणीतगीतैर्न च तेऽपि झर्झरैः ।
न ते हुडुक्केन न सोऽपि ढक्कया न मर्दलैः सापि न तेऽपि ढक्कया