तां दूर्वया श्यामलयातिवेलं शृङ्गारभासंनिभया सुशोभाम् । |
तामिति ॥ भूभृन्नलः तां मालां कण्ठेन बिभरांबभूव दधौ । किंभूताम्-श्यामलया अतएव शृङ्गाररसस्य भया कान्त्या संनिभया तुल्यया दूर्वयातिवेलमतितरां सुशोभां शोभनदीप्तिम् । तथा-प्रसूनायुधस्य कामस्य पाशभासं पाशसदृशीम् । मालानिक्षेपानन्तरमेव कामपरवशत्वान्मालायाः कामपाशत्वम् । 'श्यामो भवति शृङ्गारः' इति भरतवचनाच्छृङ्गारस्य श्यामत्वम् ।भूभृत्पर्वतोऽपि। बिभरांबभूव 'भीह्री-' इत्याभि 'कृञ्चा-' इति भुवोऽनुप्रयोगः ॥
दूर्वाग्रजासत्पुलका[१] वलिं तां नलाङ्गसङ्गाद्भृशमुल्लसन्तीम् । |
दूर्वेति ॥ मानेन ईर्ष्याजनितकोपेन नमितानना सा भैमी सासूयं गुणवात्यामपि तस्यां दोषारोपसहितं यथा तथा । सेर्ष्यमितियावत् । पुष्पमालामालोकतेत्यहं मन्ये शङ्के। किंभूताम्-दूर्वाग्राण्येव दूर्वाङ्कुरा इव वा जाग्रती स्फुरन्ती पुलकावलिर्यस्यास्ताम् । तथा नलाङ्गसङ्गाद्भृशमुल्लसन्तीं शोभमानां सहर्षां च । लज्जानम्रमुखी सत्येव मालासहितं नलं चक्षुः-(नलवक्षः) कटाक्षैर्विलोकितवती । अन्यापि नायिका एवंविधां सपत्नीं मानेन नम्रमुखी सती सेर्ष्यमालोकते । 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रि[२] ये' ॥
कापि प्रमोदास्फुटनिर्जिहानवर्णेव या मङ्गलगीतिरासाम्। |
कापीति ॥ प्रमोदाद्धर्षवशात्कण्ठस्य सगद्गदत्वादस्फुटा अप्रकटा निर्जिहाना निर्गच्छन्तो वर्णा अक्षराणि यस्यामेवंविधैव या विलोकयितुमागतानां पुरसुन्दरीणामाननेभ्यः कापि लोकोत्तरा मङ्गलरूपा धवलादिगीतिरासीत् । सैवोच्चैरुलुलूध्वनिरुञ्चचार उदलसत् । विवाहाद्युत्सवे स्त्रीणां धवलादिमङ्गलगीतिविशेषा गौडदेशे 'उलूलुः' इत्युच्यते । सोप्यव्यक्तवर्ण उच्चार्यते । स्वदेशरीतिः कविनोक्ता ॥
सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च । |
सेति ॥ तस्य नलस्य निर्मले हृदि स्थिता चान्तः प्रतिबिम्बिता च सा मधुकमाला कियती किंचिदमग्ना अब्रुडिता, कियती च मग्ना ब्रुडिता पुष्पेषुः कामस्तस्य बाणालिः