पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०७
चतुर्दशः सर्गः।

शरपङ्क्तिरिव व्यलोकि वीक्षिता । लोकैरिति शेषः । मधूकप्रतिबिम्बानां किंचिदन्तःप्रविष्टपुष्परूपबाणांशसाम्यम्, उपरिस्थितानां चामग्नबाणांशसाम्यम् । मालास्पर्शान्नलोपि कामपरवशो जात इत्यर्थः॥

रोमाणि सर्वाण्यपि बालभावाद्वरश्रियं वीक्षितुमुत्सुकानि।
तस्यास्तदा कण्टकिताङ्गयष्टेरुद्रीविकादानमिवान्वभूवन् ॥ ५३ ॥

 रोमाणीति ॥ तदा तस्मिन्समये कण्टकिता संजातरोमाञ्चा अङ्गयष्टिः शरीरं यस्यास्तस्या भैम्याः बवयोरभेदाद्वाहालभावात्केशत्वात् । अथ च शिशुत्वात् । वरस्य नलस्य श्रियं शोभा वीक्षितुमुत्सुकानीव सर्वाण्यपि रोमाणि उत् उच्चैः ग्रीवा यस्यां क्रियायां सा उद्ग्रीविका क्रिया तस्या आदानमङ्गीकरणमन्वभूवन्निव । सात्विको रोमाञ्चः स्तम्भश्च तस्या जात इत्यर्थः । बालाश्च वरश्रियं वीक्षितुमुत्कण्ठिताः खर्वत्वादुद्ग्रीवा भवन्ति । कण्टकस्तारकादिः। उद्ग्रीविका बहुव्रीहौ कप् ॥

रोमाङ्कुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां विरेजे।
शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिकेव ॥ ५४ ॥

 रोमेति ॥ रोमाङ्कुरैर्दन्तुरितमुन्नतानतीकृतमखिलाङ्गं यस्याः सा रोमाञ्चयुक्ता । तथारम्याधरा बिम्बोष्ठी सा भैमी स्मारी कामसंबन्धिनी शरोपासनवेदिकेव बाणाभ्यासशालेव सुतरां विरेजे । किंभूता वेदिका-शरव्यदण्डैर्वेध्यभूतैर्दण्डैः श्रिता मण्डनश्रीरलंकारशोभा यया सा । रोमाङ्कुराः शरव्यदण्डैस्थानीयाः। भैम्यपि श्रितमण्डनश्रीः । रोमाञ्चितां तां दृष्ट्वा सर्वेपि कामपरवशा जाता इति भावः । 'शराभ्यास उपासनम्' इत्यमरः । दन्तुरं कृतंदन्तुरितम् ॥

चेष्टा [१]व्यनेशन्निखिलास्तदास्याः स्मरेषुवातैरिव ता विधूताः ।
अभ्यर्थ्य नीताः कलिना मुहूर्तं लाभाय तस्या बहु चेष्टितुं वा ॥५५॥

 चेष्टा इति ॥ तदा तस्मिन्कालेऽस्या निखिलाश्चेष्टा व्यनेशन्विनष्टाः । उत्प्रेक्षते-स्मरेषुवातैः कामबाणपुङ्खवायुभिर्विधूता इव भ्रमणवशान्नीता इव । वाशब्द उत्प्रेक्षान्तरसमुच्चये इवार्थे वा । तस्या लाभाय भैम्याः प्राप्तये बहुभिः प्रकारैश्चेष्टितुमभ्यर्थ्य भैमीमेव याचित्वा मुहूर्तं घटिकाद्वयं क्षणमात्रं वा कलिना युगेन नीता इव । भैम्याः कामुकेन कलिना स्वस्याल्पविलासितया भैमीमलभमानेन बहुविलाससंपत्तये भैमीविलासा एव याचितकमण्डनार्थं नीता इवेति भावः । याचितमपि क्षणमात्रमेव नीयते । सात्त्विकस्तम्भन कटाक्षादिव्यापाररहितासा जातेति भावः । 'व्यनेशन्' इत्यत्र पुषादित्वादङि 'नशिमन्योरलिट्येत्त्वं वक्तव्यम्' इत्येत्त्वम् । भाष्यकारस्य कैयटस्य पदमञ्जरी-


  1. "विनेशुः' इत्यपि पाठो जीवातौ।