पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४१
द्वादशः सर्गः


याषाश्वौ रञ्जजयत्येवंशीलं श्रिया शरीरशोभया कृत्वार्तसुन्दरं जित्ं बुद्धदेवं जयन्तं जगत्याः पृथिव्या ईश्वरं राजानं प्रशंसितुं वर्णयितुम् । श्रिया संसदुपान्तरञ्जिनं जयन्तं जगति शायर्यादिना इन्द्रपुत्रतुल्यं कीकटदेशप्रभुत्वाज्जिनं बौद्धं राजानमिति वा । जयन्तनामानं वा । 'जगदीश्वरम्’ इति पारे जिनविशेषणम् ॥


तथाधिकुर्या रुचिरे चिरेप्सिता यथोत्सुकः संप्रति संमतीच्छति ।
अपाङ्गरङ्गस्थललास्यलम्पटाः कटाक्षधारास्तव कीकटाधिपः ॥८८॥

तथेति ॥ हे रुचिरे सुन्दरि, त्वं तथा तेन प्रकारेण अधिकुर्या अधिकारं कुर्याः । तथा कथम्-यथा येन प्रकारेण कीकटाधिपः मगधदेशस्वामी त्वत्कटाक्षेपृत्सुकः सन् चिरेप्सिताः तव कटाक्षधाराः तिर्यगवलोकनपरम्पराः संप्रति इदानीं संप्रतीच्छति अङ्गीकरोति । किंभूता धाराः-अपाङ्गो नेत्रप्रान्तस्तल्लक्षणं रङ्गस्थलं नाट्यशाला तत्र लास्य सविलासमन्दगतौ लम्पटाः। चिरप्सिता त्वमिति वा। चिर इत्यकारान्तमप्यव्ययं तेन समासः। एवमेवंजातीयेऽन्यत्रापि झातव्यम् ॥


इदंयशांसि द्विषतः सुधारुचः किमङ्कमेतद्विषतः किमाननम् ।
यशोभिरस्याखिललोकधाविभिर्विभीषिता धावति तामसी म[१]सी ॥ ८९ ॥

इदमिति ॥ अखिलेषु लोकेषु धाविभिः प्रसरणशीलैः लोकत्रयमुज्ज्वलं कुर्वाणैरस्य यशोभिर्विशेषेण भीपिता लोकत्रयान्निवासिता सती तामसी कृष्णपक्षरात्रिः एव मसी इदंयशांसि अस्य कीर्तीद्विषतः असहमानस्य सुधारुचेश्चन्द्रस्य अझं कलङ्कम्, अथ च-संनिधिं धावति शीघ्रं गच्छति प्रविशति किम् । किं वा एतद्विषतः एतच्छत्रोः आननं प्राप्नोतीति संशयः । एतद्यशोभिश्चन्द्राङ्कशत्रुमुखातिरिक्तस्य सकलस्यापि जगतः श्वेतीकरणमाश्रयतीत्यर्थः। अयमतितरां यशस्वीति भावः । अन्योपि भीषितः स्वगोत्रं याति, श्यामस्य च श्यामं वस्तु सगोत्रमिति । तामसी तमःसंबन्धिनी रात्रिः, मपी (सी) श्यामवस्तुमात्रगता श्यामिका च यथाक्रमं चन्द्राकं शत्रुमुखं धावति किमिति वा । निरन्तरोहयोतकरणादेतत्कीर्त्या निष्कासितेव तामसी स्त्रीस्वभावभीरुर्भर्तुश्चन्द्रस्योत्सङ्गं गता अत एव रात्रिकालिमा चन्द्राङ्के दृश्यते । सर्वस्यापि श्वेतीकरणाच्छ्यामिकापि निर्वासितान्यत्र स्थातुमशक्ततयेव रिपुमुखं गता। अत एव विवर्णीभूतेषु वैरिमुखेषु कालिमा दृश्यते । एतद्विषतः, 'द्विपः शतुर्वा' इति पठ्या समासः॥


इदंनृपप्रार्थिभिरुज्झितोऽर्थिभिर्मणिप्ररोहेण विवृध्य रोहणः।
कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥ ९०॥

इदमिति ॥ अतिवदान्यस्य अस्य नृपस्य प्रार्थनशीलैरर्थिभिः याचकैः अनेनैव सक- लकामानां पूरितत्वादुज्झितः परित्यक्तः । अत एव रत्नव्ययाभावात् मणिप्ररोहेण वि-


  1. १, २ 'मषी' इत्यत्र मूर्धन्यान्तत्वमेव बहुत्र दृश्यते । तथापि वर्णसाम्याइन्त्यान्तपाठः स्थापितः । सुखाव-
    बोधाजीवात्वोरपि दन्त्यान्तैव दृश्यते ।