पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४२
नैषधीयचरिते

नपघायचारत , वृध्य अङ्कुरोत्पत्या विशेषेण वृद्धिं प्राप्य रोहणो मेरुः कियद्भिः कतिपयैरल्पैरेव दिनैरम्बरमाकाशं आवरिष्यते आच्छाद्दयिष्यति यतः, तस्मात् मुनिरगस्तिः विन्ध्यनामानं भूधरं मुधैवारुन्ध मदागमनपर्यन्तं त्वया न वर्धितव्यमिति नियमेन वृथैव वाग्वद्धमकरोत् । तद्वृद्य्ध्भावेऽपि रोहणेनैव सूर्यगतेः प्रतिबन्धस्य करिष्यमाणत्वादगस्त्यप्रयासस्य वैयर्थ्यमेव जातमित्यर्थः । अगस्त्येन विन्ध्यरोधस्तु पुराणप्रसिद्धः। आवरिष्यते, विकल्पत्वादिटो दीर्घॊ न । अरुन्ध, लङ्ङात्मने[१]पदे ।


  भूशक्रस्य यशांसि विक्रमभरेणोपार्जितानि क्रमा-
   देतस्य स्तुमहे महेभरदनस्पर्धीनि कैरक्षरैः ।
  लिम्पद्भिः कृतकं कृतोऽपि रजतं राज्ञां यशःपारदै-
   रस्य स्वर्णगिरिः मतापदहनैः स्वर्ण पुनर्निर्मितः ॥ ९१ ॥

 भृशक्रस्येति ॥ वयं विक्रमस्य भरेण बाहुल्येन कमात्परिपाट्या उपार्जितानि एतस्य भूशक्रस्य पृथ्वीन्द्रस्य यशांसि कैरक्षरैवणैः स्तुमहे वर्णयामः । यशसां भूयस्त्वाद्वर्णानां पञ्चाशत्त्वात्स्तोतुं न शक्नुमः । सामान्याकारेण कथंचिद्वर्ण्यन्त इत्यर्थः। किंभूतानि-महेभाः पष्टिहायना गजाः, ऐरावतो वा तेषां दशनैः सह स्पर्धन्ते एवंशीलानि तद्वद्गौराणि । स्वर्णगिरिर्मेरुः अन्येषां राज्ञां मेरुमेव लिम्पद्भिः यशोलक्षणैः पारदै रसैः कृतकमसत्यं रजतं रूप्यं कृतोऽपि प्रलेपनिर्मित पाण्डुद्युतितां नीतोऽपि सन् अस्य प्रतापरूपैर्दहनैः अग्निभिः पुनः स्वर्णं निर्मितः कृतः। प्रतापस्य पीतत्वात्स्वर्णरूपतां प्रापितः। पारदलेपेन सुवर्णं श्वेतीभवति, वह्नितापेन चोड्डीने पारदे पुनः काञ्चनमेव भवतीत्यर्थः। एतत्प्रतापाने परेषां यशांसि न प्रसरन्ति । यशस्वी प्रतापवांश्चान्यः कोपि [२]नास्तीत्यर्थः।


  यद्भर्तुः कुरुतेऽभिषेणनमयं शक्रो भुवः सा ध्रुवं
   दै[३]ग्दाहैरिव भस्मभिर्मघवतावृ[४]ष्टेर्धृतोद्धूलना।
  शंभोर्मा बत सांधिवेलनटनं भाजि व्रतं द्रागिति
   क्षोणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसंध्याधिया ॥ ९२ ॥

यदिति ॥ अयं भुवः शको भूमीन्द्रः यस्या भूमेर्भर्तुः अभिषेणनं सेनयाभिगमनं कुरुते सा झोणी भूमिः इति मनसि कृत्वा लोहितत्वेनौत्पातिकी असृग्वृष्टी रुधिरवृष्टिस्तद्रूपा या सायंसंध्या तस्या धिया भ्रमबुद्ध्या द्राक शीघ्रं नृत्यति गात्रविक्षेपं करोति। कम्पते इत्यर्थः । बत खेदे । ध्रुवमुत्प्रेक्षे । किंभूता सा भूः-दाहात् इन्धनज्वलनाद्भस्म-



  1. ’अत्र रोहणाद्रेरीहज्विध्यसंबन्धेपि संबन्धोक्त्तेशयोक्त्तिः इति जीवातु: ।
  2. अत्रप्युक्त्तरूपासं बन्धेऽपि स्ंबन्धोक्त्तेरतिश्योक्त्तिः इति जीवातुः ।
  3. दिग्दाहैः' इति मूलपुस्तकपाठः ।
  4. सृष्टः' इति मुले जीवातुसंमतः पाठः।