पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२१
द्वादशः सर्गः।

मपि दिनं दिनत्वात्सूर्येण कर्तव्यम् । तच्चतुर्युगसहस्रपरिमाणत्वादेतद्दिननिर्मात्रा सूर्येण निर्मातुमशक्यमिति तद्विलक्षणेन चिरकालावस्थायिनातिदीप्रेणैतदीयप्रतापतपननैव निर्मातुं शक्यं न त्वन्येनेत्यहमुत्प्रेक्ष इत्यर्थः । तथा-अहं अम्बुधिपयःपूरे प्रवाहमध्ये वाडवो वडवानलो यस्य एतीयप्रतापतपनस्य प्रतिबिम्बरूप इति शङ्के । जलान- लयोः सहावस्थानविरोधाद्वाडवोऽग्निर्न भवति । किं तु प्रतापप्रातावम्ब सूयस्य सलिले प्रतिबिम्वं भवति । किंभूतः सः–व्योमव्यापिन्यो विपक्षराजकस्य रिपुराजकस्याल्पत्वाद्यशांस्येव तारा नक्षत्राणि स्वप्रभावेण पराभावुकस्तिरस्कर्ता। सूर्यणापि व्योमव्यापिवैरिचन्द्रस्य चन्द्रिकारूपं यशो नक्षत्राणि च पराभूयन्ते । एतत्प्रतापसूर्यस्य पुरस्ताद्वैरियशांसि न प्रसरन्तीत्यर्थः। पराभावुकः, 'लपपत-' इत्युकञ् । तद्योगे, 'न लोका-' इति षष्ठीनिषेधात्तारा इति द्वितीया ॥

द्वेष्याकीर्तिकलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयी-
कीर्तिश्रेणिमयी समागममगाङ्गा रणप्राङ्गणे ।
तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भापरी-
रम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥ १२ ॥

 द्वेष्येति ॥ अस्य राज्ञः दोर्द्वयी बाहुद्वयं तया जनिता कीर्तिश्रेणिः कीर्तिपरम्परा तन्मयी तद्रूपा श्वेतत्वाद्गङ्गा द्वेष्याणां रिपूणां पलायनाजनिता अर्कीतिः सैव कलिन्दशैलसुता यमुना तया नद्या सह यद्यस्माद्रणप्राङ्गणे सङ्ग्रामभूमौ समागममगात्संयोगं प्राप । तत्तस्मात्कारणात् तस्मिन्प्रयागसंज्ञके गङ्गायमुनासंगमे बाहुजभटैः क्षत्रिययोधैः विशेषेण निमज्ज्य लक्षणया देहं त्यक्त्वा रम्भापरीरम्भानन्दस्य निकेते नन्दनवने देवोद्याने क्रीडायां य आदर आसक्तिस्तस्य आडम्बरो वाहुल्यमारम्भि आरब्धम् । योपि प्रयागे निमज्जति सोपि 'सि[१]तासिते सरिते' इत्यादिश्रुत्या नन्दनवने रम्भाद्यप्सरोभिः सह क्रीडति। 'बाहुजः क्षत्रियो विराटू' इत्यमरः। आरम्भि, 'रभेरशब्लिटोः' इति नुम् । परीरम्भ इति, 'उपसर्गस्य घञि' इति दीर्घः॥

इति श्रुतिस्वादिततद्गुणस्तुतिः सरखतीवाङ्मयविस्मयोत्थया ।
शिरस्तिर:कम्पनयैव भीमजा न तं मनोरन्वयमन्वमन्यत ॥ १३ ॥

 इतीति ॥ भीमजा शिरसः तिरःकम्पनयैव वक्रचालनयैव तं मनोरन्वयं सूर्यपुत्रमनुवंशसमुत्पन्नं ऋतुपर्णं नान्वमन्यत नाङ्गीचकार । किंभूता-इति पूर्वोक्तप्रकारेण श्रुतिभ्यां कर्णाभ्यां स्वादिता सादरमाकर्णिता तद्गुणस्तुतिर्यया । किंभूतया (कम्पनया-) सरस्वत्या वाङ्मयेन जनितो विस्मय आश्चर्य तस्मादुत्थयोत्पन्नया । शिरःक


  1. सितासिते सरिते यत्र सङ्गते तत्राप्लुतासो दिवमुत्पतन्ति । ये वै तन्वं विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्ते ॥' इति ।