पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१२
नैषधीयचरित

म्पस्योभयसूचकत्वादाश्चार्याभिनयकृतः कम्पस्तन्निराकरणार्थो जात इत्यर्थः । अस्य मनुवंशत्वात्स्वस्य सोमवंशे साभिलाषत्वात्कन्याभिलषितसौन्दर्याद्यवर्णनाद्वाननुरागः॥

युवान्तरं सा वचसामधीश्वरा स्वरामृतन्यक्कृतमत्तकोकिला।
शशंस संसक्तकरैव तद्दिशा निशापतिज्ञातिमुखीमिमां प्रति ॥ १४ ॥

 युवेति ॥ सा वचसामधीश्वरा सरस्वती निशाकरस्य शाति सदृशं मुखं यस्यास्ता चन्द्राननामिमां प्रति युवान्तरमन्यं वरं शशंस वर्णयामास । किंभूता-स्वरामृतेन न्यकृतस्तिरस्कृतो मत्तो वसन्तदृष्टः कोकिलो यया । तथा -तद्दिशा यस्यां दिशि वर्णनीयो युवा तिष्ठति तद्दिशा तदीयया दिशाभिमुख्येन संसक्तकरैव संवद्धहस्ता । हस्तेन तं निर्दिश्येति यावत् । सरस्वतीवाणीं माधुर्येणैवाशृणोन्नतु राजन्यानुरागेणेति स्वरामृतपदेन सूचितम् । ईश्वरेति, 'स्थेश-' इति वरच् । अथ प्राणेश्वरीत्यादेः कथं साधुत्वम् । अन्येभ्योऽपि दृश्यन्ते' इतीशेर्वनिपि ङीरयोः सतोरित्यवेहि ॥

न पाण्ड्यभूमण्डनमेणलोचने विलोचनेनापि नृपं पिपाससि ।
शशिप्रकाशाननमेनमीक्षितुं तरङ्गयापाङ्गदिशा दृशोस्त्विषः ॥१५॥

 नेति ॥ हे एणलोचने मृगाक्षि, त्वं पाण्ड्यभूमण्डनं पाण्ड्यदेशस्य चूडामणिं मुकुटरत्नभूतं नृपं विलोचनेन पिपासस्यपि न न पश्यसि । तावत् परं पातुमिच्छस्यपि नेत्यपेरर्थः । अनुचितमेतदित्यर्थः । अधरेण तावन्न पिपाससि, परं विलोचनेनापि न पिपाससीति । द्वाभ्यां नेत्राभ्यां न पिपाससि परमेकेनापि न पिपाससीति वा। तस्मात्त्वं शशिवत्प्रकाशं प्रसन्नमाननं यस्य तं एनं नृपमीक्षितुं दृशोस्त्विषो नेत्ररश्मीनपाङ्गदिशा नेत्रप्रान्तदेशेन तरङ्गय । अतिसुन्दरमेनं कटाक्षैर्विलोकयेति भावः ॥

भुवि भ्रमित्वानवलम्बमम्बरे विहर्तुमभ्यासपरम्परापरा ।
अहो महावंशममुं समाश्रिता सकौतुकं नृत्यति कीर्तिनर्तकी ॥१६॥

 भुवीति ॥ हे भैमि, महावंशं महाकुलीनममुं समाश्रिता । एतदीयेति यावत् । एवंविधा कीर्तिरूपा नर्तकी सकौतुकं यथा तथा धनाभिलाषराहित्येन नृत्यति । अहो आश्चर्यम् । ( आश्चर्यं) लोकगतं, कौतुकं नर्तकीगतमिति न पौनरुक्त्यम् । किंभूता-पूर्वं भ्रमित्वा । सकलं भूमण्डलं व्याप्येत्यर्थः । पश्चादनवलम्बं यथा तथा अम्बरे गगने विहर्तुं चरणायाभ्यासपरम्परायां परा आसक्ता । अभ्यासपरम्परायां वा परा उत्कृष्टा । एतदीया कीर्तिर्भूलोकं पूर्वमभिव्याप्य लोकान्तरं व्याप्नोतीत्यर्थः । सेनाद्यनवलम्बेन सदोत्साहवन्तममुमिति वा । नर्तक्यपि पूर्वं भूमौ भ्रमित्वा निराश्रयं गगने नर्तितुमभ्यासपरा सती महान्तं वेणुमाश्रित्य वेणोरुपरि सकौतुकं नृत्यति । अथ च महान्तं पृष्ठवंशमाश्रिता नर्तकीति वा । याहि झटिति भूमावपि गन्तुमपि न शक्नोति