निर्वचनपरिपाट्यां विषये कुण्ठितानां कतिपयानामेवाङ्गानां स्तुतिः कृता, अनन्तरं स्फूर्त्यभावाद्धतशक्तीनां तूष्णींभूतानां मेनकादीनामप्सरसां स्वयं स्वेन धृतां हृदः स्त्रीहृदयस्य मण्डनं भूषणीभूतां ह्रियं लज्जां प्रसादं लज्जारूपं प्रसादमर्पयन्तीं ददतीम् । अतिसौन्दर्यस्तुतिकरणाशक्तेरप्सरसोऽपि लज्जिता इति भावः। 'मध्ये उदरे विषये निरुक्तिक्रमकुण्ठितानां तद्वर्णयितुमशक्तानाम्' इति वा । अन्यापि भोगावलीपाठकानां स्वयं धृतमुत्तमहारादि हृदयमण्डनमर्पयति । प्रसादमण्डनशब्दावाश्लिष्टलिङ्गौ[१]’॥
तारा रदानां वदनस्य चन्द्रं रुचा कचानां च नभो जयन्तीम् ।
आकण्ठमक्ष्णोर्द्वितयं मधूनि महीभुजः कस्य न भोजयन्तीम ॥ १०६ ॥
तारा इति ॥ तथा-रदानां रुचा ताराः, वदनस्य रुचा चन्द्रम् , कचानां रुचा नभः, जयन्तीमिति सर्वत्रान्वयः । कस्य महीभुजः अक्ष्णोर्द्वितयं नयनद्वयं आकण्ठमुपचारादतितरां मधूनि न भोजयन्तीम् । अपितु सर्वस्यापि पाययमानाम् । अतिसुन्दरतद्दर्शनेन राजनेत्राणाममृतेनेव तृप्तिर्जातेति भावः[२] ॥
अलंकृताङ्गाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ।
इमां विमानेन सभां विशन्तीं पपावपाङ्गैरथ राजराजिः ॥१०७॥
अलंकृतेति ॥ तथा अलंकृतादप्यङ्गादवयवादद्भुतमाश्चर्यरूपं केवलं अनलंकृतमङ्गं यस्यास्ताम् । तथा-स्तवात्स्तुतेरधिका अध्यक्षनिवेद्या प्रत्यक्षदृश्या लक्ष्मीर्यस्यास्ताम् । स्तूयमानाया लक्ष्म्याः सकाशादनुभूयमाना लक्ष्मीरधिकेत्यर्थः । अथ विमानेन नरवाह्यचतुरन्त (स्र)यानेन स्वयंवरसभां विशन्तीमिमां भैमीं राजराजी राजपङ्किरपाङ्गैः कटाक्षै: पपौ सादरं पश्यति स्म[३] । कुलकम् ॥
आसीदसौ तत्र न कोऽपि भूपस्तन्मूर्तिरूपोद्भवदद्भुतस्य ।
उल्लेसुरङ्गानि मुदा न यस्य विनिद्ररोमाङ्कुरदन्तुराणि ॥ १०८ ॥
आसीदिति ।। तस्या मूर्तिर्देहः तस्या रूपं सौन्दर्यं तद्विलोकनेनोद्भवज्जातमद्भुतमाश्चर्यं यस्य एवंभूतस्य यस्याङ्गानि नोल्लेसुः हर्षं न प्रापुः । असौ ईदृशः कोऽपि भूपः तत्र सभायां नासीत् । किंभूतान्यङ्गानि-मुदा अनुरागेण कृत्वा विनिद्रै: रोमाङ्कुरैः दन्तुराणि नतोन्नतानि । सर्वेऽपि तत्सौन्दर्यदर्शनात्साश्चर्याः सानुरागा जाता इति भा[४]वः
अङ्गुष्ठमूर्ध्ना विनिपीडिताया मध्येन भागेन च मध्यमायाः ।
आस्फोटि भैमीमवलोक्य तत्र न तर्जनी केन जनेन नाम॥१०९॥
- ↑ 'अत्र रूपकप्रतीपमानोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी ।
- ↑ ’'अत्र दीपकातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुकत्वात् काव्यलिङ्गम् । तच्च संसृष्टाभिस्ता-राद्युपमाभिः संकीर्यते । तस्य 'नभोजयन्तीम्' इति यमकेन संसृष्टिः' इति जीवातुः।
- ↑ 'अत्र छेकानुप्रासा-तिशयोक्त्यलंकारः' इति साहित्यविद्याधरी ।
- ↑ 'अत्र भावोदयालंकारः' इति साहित्यविद्याधरी ।