पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४४
नैषधीयचारत

  स्मितेच्छुदन्तच्छदकम्पकिंचिद्दिगम्बरीभूतरदांशुवृन्दैः ।

  आनन्दितोर्वीन्द्रमुखारविन्दैर्मदं नुदन्तीं हृदि कौमुदीनाम्॥१०२॥

 स्मितेति ॥ स्वस्मिन्प्रसादबुद्ध्यानन्दितानि उर्वीन्द्राणां राज्ञां मुखारविन्दानि यैरेवंभूतैः, स्मितेच्छू ईषद्धास्यं कर्तुकामौ दन्तच्छदावोष्ठौ तयोः कम्पेन किंचिच्चलनेन किंचिद्दिगम्बरीभूता ईषत्प्रकटीभूता रदा दन्तास्तेषामंशुवृन्दैः कृत्वा कौमुदीनां ज्योत्स्नानां हृदि स्थितं मदं नुदन्तीम् । अथ च--'अंशुलेशे रवौ रश्मौ' इत्यभिधानाद्रदा एवांशुवृन्दानि सूर्यसङ्घास्तैः नन्दितारविन्दत्वात्कौमुदीमदहरणं युक्तम् । ततोऽप्यधिकका- न्तित्वाच्च । सूर्येण हि कमलानामानन्दः, चन्द्रिकाणां च तदभावः क्रि[१]यते ॥

  प्रत्यङ्गभूषाच्छमणिच्छलेन यल्लग्नतन्निश्चललोकनेत्राम् ।

  हाराग्रजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम ॥१०३॥

 प्रत्यङ्गेति ॥ प्रत्यङ्गं प्रत्यवयवं भूषाणां भूषणानामच्छा निर्मला मणयो रत्नानि तेषां छलेन व्याजेन यस्मिन्नवयवे लग्नानि तत्रैव निश्चलानि लोकनेत्राणि यस्याम् । यस्य यस्यावलोककस्य नेत्रे यत्र यत्र तदीयेऽवयवे लग्ने तत्रैव विलोकनविच्छेदभिया निमेषं परित्यज्य निश्चलीभूते यस्यामेवंभूतामित्यर्थः । दर्शनोत्सुकनेत्राण्येवैतानि, न तु रत्नानीत्यर्थः । अतिसुन्दरीं प्रत्यङ्गं रत्नैरलंकृतामिति भावः । तथा–हाराने मुक्ताहारमध्ये जाग्रत्स्फुरन् गरुडाश्मा गरुडोद्गारमणिस्तस्य रश्मिभिः पीना वर्धिता आभा यस्य स नाभीकुहरान्धकारो नाभीदरीतिमिरं यस्या एवंभूताम्[२]

  तद्गौरसारस्मितविस्मितेन्दुप्रभाशिरःकम्परुचोऽभिनेतुम् ।

  विपाण्डुतामण्डितचामरालीनानामरालीकृतलास्यलीलाम ॥ १०४ ॥

 तदिति ॥ तथा तस्या गौरवस्तुसारभूतमतिगौरं स्मितं तेन विस्मिता साश्चर्याभूता इन्दुप्रभा तस्याः शिर:कम्परुचोऽभिनेतुं तत्स्मितदर्शनजनितविस्मयवशाच्चन्द्रदीप्तिरेवं शिरःकम्पं करोतीति दर्शयितुं विपाण्डुतया मण्डिताश्चामराल्यश्चामरपङ्किरूपाः नानामराल्योऽनेका हंस्यस्ताभिः कृता लास्यलीला यस्यास्ताम् । चन्द्रिकाचामरमरालतुल्य स्मितां चामरैर्वीज्यमानां चेति [३]भावः॥

  तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमकुण्ठितानाम् ।

  स्वयं धृतामप्सरसां प्रसादं ह्रियं हृदो मण्डनमर्पयन्तीम् ॥१०४॥

 तदिति ॥ तथा--तस्या अङ्गानां भोगावलिः भुज्यन्त इति भोगाश्चन्दनादयस्तत्प्रतिपादको ग्रन्थस्तद्गायनीनां प्रारब्धस्तुतीनां मध्ये असमाप्तायामेव स्तुतौ निरुक्तिक्रमे


  1. 'अत्र रूपकातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  2. ’'अत्रानुप्रासातिशयोक्त्यपगुतितद्गुणा लंकारः' इति साहित्यविद्याधरी । 'अत्र मरकतच्छायस्यान्धकारैः साम्योक्तेः सामान्यालंकारः' इतिजीवातुः
  3. ’ 'अत्र छेकानुप्रासरूपकातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी