पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
प्रथमः सर्गः


तमेव प्रकारमाह-

नृपेऽनुरूपे निजरूपसंपदां दिदेश तस्मिन्बहुशः श्रुतिं गते ।
विशिष्य सा भीमनरेन्द्रनन्दना [१] मनोभवाज्ञैकवशंवदं मनः ॥३३॥

  नृप इति ॥ सा भीमनरेन्द्रस्य नन्दना दमयन्ती तस्मिन्नृपे नले मनो विशिष्य अन्यस्त्रीभ्यः सकाशादतिशयेन, अन्यनृपेभ्य आकृष्य वा दिदेश निदधौ । किंभूते नृपेनिजरूपसंपदां स्वकीयसौन्दर्याधिक्यानामनुरूपे योग्ये । तथा बहुशोऽनेकवारं श्रुति श्रवणगोचरं गते प्राते। किंभूतं मनः-मनोभवस्य कामस्य आज्ञाया एकं मुख्यं वशंवदं प्रवणम् । कामाज्ञाकारकमित्यर्थः । मदनायत्तत्वान्नल एव संलग्नमित्यर्थः । रूपं च संपदश्चेति वा । बहुश इति 'संख्यैकवचनात्-' इति शस् । नन्दना इति नन्द्यादित्वा: । वशंवदमिति 'प्रियवशे वदः खच्' । 'अरुद्धिषद्जन्तस्य-' इति मुम् [२] ॥

उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम् ।
पठन्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥३४॥

 उपासनामिति ॥ सा भैमी स्वावसरं त्यक्त्वा दिने दिने प्रतिदिनं पितुरुपासनां सेवामेत्यागत्य बन्दिनामवसरेषु समयेषु रज्यते स्म अनुरक्ता बभूव । तेषामवसरे नलाकर्णनसंभवादित्यर्थः । तदेवाह-तेषु बन्दिषु प्रतिभूपतीनन्यानराझ: पठत्सु स्तुतिपूर्वकं वदत्सु सत्सु सा भैमी नलं शृण्वती सती अलमत्यर्थ विनिद्ररोमाजन्युपुलका जाता। श्रवणानुरागः सात्त्विको भावश्च दर्शितः । उपासनामिति ‘ण्यासश्रन्थो-' इति युच् । रज्यते इति स्वरितेतो देवादिकस्य रच्जे रूपम् । भूपतीन्प्रतीति लक्षणे कर्मप्रवचनीयत्वम् । विनिगुरोमा इति नान्तं डाबन्तं वा । अजनीति 'दीपजन-' इति कर्तरि चिणि 'जनिवध्योश्च' इति निषेधाद्वद्धयभावः [३]॥

कथाप्रङ्गेषु [४] मिथः सखीमुखातॄणेऽपि तन्व्या नलनामनि श्रुते ।
द्रुतं विधूयान्यदभूयतानया मुदा तदाकर्णनसज्जकया ॥ ३५ ॥

 कथेति ॥ मिथः परस्परं कथानुषङ्गेषु सखीमुखात्तृणेऽपि विषये नलनाम्नि तन्व्या दमयन्त्या श्रुते सति अनया भैम्या मुदा हर्षेण तस्य नलनाम्न आकर्णने श्रवणे सज्जौ तत्परौ कर्णौ यस्या एवंविधयाभूयत जातम् । किं पुनर्वाच्यं नलनृपवर्णने सज्जकर्ण-


१ 'नन्दिनी' इति पाठान्तरम् । २ 'श्रवणादनुरागः । तथाच रुद्रटः -'परकीया तु द्वेधा कन्योढा चेति जायते । गुरुमदनार्ते नायकमालोक्याकर्ण्य वा सम्यक् ॥' शृङ्गारतिलकेऽप्युक्तम्- 'अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये । दर्शनाच्छ्रवणाच्चापि कामार्ते भवतो यथा ॥' अत्रानुप्रासोऽलंकारः' इति साहित्यविद्याधरी । ३ 'इति श्रवणस्य कालः प्रतिपादितः । तथाच रुद्रटः -'देशे काले भङ्गयां साधु तदाकर्णनं च स्यात्' । भावोदयालंकारः। औत्सुक्यस्योदय उक्तः । भावशबलतालंकारः । भावस्य शान्तिरुदयः संधिः शबलतास्तथा' इति साहित्यविद्याधरी। ४ 'नुषङ्गेषु' इति पाठान्तरम् । 'अत्र हर्षौत्सुक्ययोः शबलता भावः शवलतालंकारः' इति साहित्यविद्याधरी । 'अर्थान्तरोपयुक्तोऽपि नलशब्दो नृपस्मारकतया तथाकर्षकोऽभूदिति रागातिशयोक्तिः' इति जीवातुः ।