पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
नैषधीयचरिते

रेमे इत्यर्थः । क्रमेण मुग्धादीनां नले चित्तासङ्गो दर्शितः। बह्वयो युवतयो नलमेव स्वामगतं ददृशुरित्यर्थः । 'नाम गोत्रं कुलं गोत्रं गोत्रस्तु धरणीधरः' इति यादवप्रकाशः॥

इदानीमन्यस्त्रीणां तयोग्यत्वप्रतिपादनपुरःसरं भैमीप्रसङ्गं करोति-

श्रियास्य योग्याहमिति स्वमीक्षितुं करे तमालोक्य सुरूपया धृतः।
विहाय भैमीमपदर्पया कया न दर्पणः श्वासमलीमसः कृतः॥३१॥

 श्रियेति ॥ कया सुरूपया ज्ञाच्या भैमीं विहाय त्यक्त्वा दर्पण आदर्शः श्वासमलीमसः श्वासेन मुखवायुना मलिनो न कृतः, अपितु भैमीव्यतिरेकेण सर्वाभिरपि कृतः। अयोग्यत्वात् । किंभूतो दर्पणः-तं नलं चित्रादावालोक्य इति विचार्य स्वमात्मानमपीक्षितुमवलोकयितुं करे हस्ते धृतः। इतीति किम्-श्रिया शोभयास्य नलस्याहं योग्या स्यामिति काकुः । किंभूतया कया--अपदर्पया गतदर्पया तमालोक्य गतगर्वया इति वान्वयः। भैमीं त्यक्त्वा सर्वा अपि गतगर्वा जाता इति भावः। 'प्राप्तरूपसुरूपाभिरूपा बुधमनोज्ञयोः' इत्यमरः । विहायेति ल्यबन्तसरूपो निपातो विनार्थे द्रष्टव्यः। (तद्योगे च 'ततोऽन्यत्रापि दृश्यते' इति वचनाभ्दैमीमिति द्वितीया) शिष्टप्रयोगात् । 'ज्योत्स्नातमित्रा-' इति मलीमसो निपातितः॥

नले भैमीमनोभिलाषमाह-

ययोह्यमानः खलु भोगभोजिना प्रसह्य वैरोचनिजस्य पत्तनम् ।
विदर्भजाया मदनस्तथा मनोनलावरुद्धं वयसैव वेशितः ॥ ३२ ॥

 यथेति ॥ वयसा पक्षिणा गरुडेनैवोह्यमानः प्राप्यमानो मदनः प्रद्युम्नः प्रसह्य बलास्कारेण वैरोचनिजस्य पत्तनं बलिपुत्रस्य बाणस्य शोणितपुरं नगरं यथा गरुडेनैव प्रवेशितस्तथा वयसैव तारुण्येनैव विदर्भजाया दमयन्त्या मनः कर्म प्रसह्य शैशवसमयं फ्रान्त्वा मदनः प्रवेशितः । खलु वाक्यालंकारे, प्रसिद्धौ वा । किंभूतेन गरुडेन-भोगभोजिना भोगं सर्पशरीरं भुङ्क्ते एवं शीलस्तेन । तारुण्यपक्षे-भोगं सुखं भुङ्क्ते भोजयति वा तच्छीलेन । किंभूतं पत्तनम्-अनलेनाग्निनावरुद्धं समन्ततो व्याप्तं भैमीमनः । पक्षे-नलेन संबद्धमाकान्तं चित्रादौ दृष्टं श्रुतं च नलं मनसि निधाय कामपीडिता जाता इत्यर्थः । कामः कीदृक्-तारुण्यचिह्नैरूह्यमानस्तर्क्यमाणः । प्रसह्येति हठार्थेऽव्ययम् । पक्षे सहेर्त्यप् । बाणासुरकन्याविवाहेऽनिरुद्धे श्रीकृष्णनप्तरि बाणेनावरुद्धे नारदवचनादलप्रद्युम्नसहितः श्रीकृष्णो गरुडमारुह्यानिरुद्धमोचनार्थ शोणितपुरं गत इति विष्णुपुराणम् । 'भोगिभोजिना' इति पाठे भोगिनः सर्पान् , भोगयुक्तान्विलासिनश्चेति 'खगबाल्यादिनोर्वयः' इत्यमरः ॥


१ 'अत्र छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी । 'अत्रापि दर्शनाद्यसंवन्धेऽपि संबन्धोक्तेरतिशयोक्तिः' इति जीवातुः । २ अयं पाठः कुत्रचिन्न । ३ 'अत्रापि सर्वासामेवंविधव्यापारासंबन्धेऽपि संबन्धोक्तरतिशयोक्तिः' इति जीवातुः । 'अत्र गर्वस्य व्यभिचारिभावस्य शान्तिः' इति साहित्यविद्याधरी । ४ 'अत्र श्लेषोपमालंकारौ' इति साहित्यविद्याधरी । 'अत्र यथोह्यमानः, मनोनल इति शब्दश्लेषः । अन्यत्रार्थश्लेषः । श्लिष्टविशेषणा चेयमुपमा । साच वयसा इति वयसोरभेदाध्यवसायमूलातिशयोक्त्यनुप्राणितेति संकरः' इति जीवातुः।