पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
नैषधीयचरिते

  कथावशेषं तव सा कृते गतेत्युपैष्यति श्रोत्रपथं कथं न ते ।

  दयाणुना मां समनुग्रहीष्यसे तदापि तावद्यदि नाथ नाधुना ॥ ९९ ॥

 कथेति ॥ सा भैमी तव कृते कथावशेषं गता त्वय्यनुरक्ता सती त्वत्प्राप्त्यभावाजन्मान्तरेऽपि त्वत्प्राप्त्यर्थं मृतेति ते श्रोत्रपथं कथं नोपैष्यति जनमुखात्त्वमपि श्रोष्यस्येव । तदा श्रुतेऽपि किमित्यत आह-हे नाथ प्राणेश, यद्यप्यधुना मां नानुगृह्णासि तथापि तदापि तस्मिन्नपि समये तावत् दयाणुना कृपालेशेन मां समनुग्रहीष्यसे । तावच्छब्दः संभावनायाम्। सा मदर्थं मृतेति तदा यद्वदिष्यसि तेनैव कृपालेशेनाहं धन्या भविष्यामीति भावः । अन्योऽपि स्वामी स्वीयं पूर्वमननुगृह्णन्नपि तदर्थे कष्टां दशां प्रातमनुगृह्णाति । अनुग्रहीष्यसे, स्वरितेत्त्वात्तङ्, 'ग्रहोऽलिटि-' इति [१]दीर्घः ॥

  ममादरीदं विदरीतुमान्तरं तदर्थिकल्पद्रुम किंचिदर्थये ।

  भिदां हृदि द्वारमवाप्य मा[२]स मे हतासुभिः प्राणसमः समं गमः

 ममेति ॥ मम इदमान्तरं हृदयं विदरीतुं स्फुटितुं यस्मादादरि सादरम्, तत्तस्मात् हे अर्थिनां कल्पद्रुम, अहं किंचिदर्थये याचे । कल्पवृक्षत्वात्त्वया तहातव्यमित्यर्थः । किं तदित्याह-हृदि भिदां विदारणलक्षणं द्वारं मार्गमवाप्य मे हतैः विनष्टैः, अथ च निष्फलैरसुभिः प्राणैः समं सार्धं प्राणसमः प्राणप्रियः स त्वं मा गमः । प्राणा मद्वृद- याद्गच्छन्तु, त्वं मा गमः । जन्मान्तरेऽपि मम त्वय्येवासक्त्या भवितव्यमिति त्वां प्रार्थय इति भावः । विदरीतुम् 'वृतो वा' इति [३]दीर्घः ॥

  इति प्रियाकाकुभिरुन्मिषन्भृशं दिगीशदूत्येन हृदि स्थिरीकृतः।

  नृपं स योगेपि वियोगमन्मथः क्षणं तमुद्भ्रान्तमजीजनत्पुनः ॥ १०१ ॥

 इतीति ॥ दिगीशानां दूत्येन हृदि अस्थिरोऽप्येतावत्कालपर्यन्तं स्थिरीकृतः स दर्शनलक्षणे योगे सत्यपि भैमीविषयो नलस्य वियोगमन्मथः इति पूर्वोक्तैः प्रियायाः काकुभिर्दीनवचनैः कृत्वा भृशमुन्मिषन्नतितरामुद्रुद्धः सन् क्षणं तं पुनरुद्भान्तमतिशयेन भ्रान्तमजीजनञ्चकार । पूर्वमनेकवारं भ्रान्तः कृत एवेति पुनःशब्दार्थः । उन्मादवशात्सोऽपि प्रलपति स्मेति भावः । संनिहितामपि भैमी नाजानादि[४]त्यपि ॥

 पूर्वमेवार्थ सोपस्कारमाह-

  महेन्द्रदूत्यादि समस्तमात्मनस्ततः स विस्मृत्य मनोरथस्थितैः

  क्रियाः प्रियाया ललितैः करम्बिता वि[५]तर्कयन्नित्थमलीकमालपत्

 महेन्द्रेति ॥ स नलः ततोऽनन्तरम् आत्मनः समस्तं महेन्द्रदूत्यादि स्वकर्तृकमिन्द्र-


  1. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी।
  2. 'मैव मे' इति जीवातुसुखावबोधासंमतः पाठः ।
  3. 'अत्र हेतुरूपकालंकारः' इति साहित्यविद्याधरी।
  4. 'अत्र हेतुरूपकालंकारः' इति साहित्यविद्याधरी
  5. 'विकल्पयन्' इति जीवातुसाहित्यविद्याधरीसंमतः पाठः ।