पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९३
नवमः सर्गः

दूत्यं आदिशब्दाद्वयादिदूत्यं विस्मृत्य पूर्वं विप्रलम्भावस्थायां मनोरथस्थितैर्मनोरथकल्पितैः ललितविलासैः करम्विता मिश्रिताः प्रियाया भैम्याः क्रिया विलापचेष्टा वितर्कयन्नानाप्रकारेण तर्कयन्संभावयन् इत्थं वक्ष्यमाणप्रकारेणालीकमवुद्धिपूर्व आलपदवोचत् । उन्मादशात्प्रणयकलहादि संभावयन्भैमीं प्रति प्रलपति स्मेति [१]भावः ॥

  अयि प्रिये कस्य कृते विलप्यते विलिप्यते हा मुखमश्रुविन्दुभिः ।

  पुरस्त्वयालोकि नमन्त्रयं न किं तिरश्चलल्लोचनलीलया नल:॥ १०३ ॥

 अयीति ॥ अयि प्रिये, कस्य कृते किमर्थं त्वया विलप्यते । अश्रुबिन्दुभिः कर्तृभिः करणैर्वा मुखं विलिप्यते व्याप्यते । हा कष्टम् । अमङ्गलमेतन्मा कार्षीरित्यर्थः । तिरश्चलन्ती सदा कटाक्षावलोकनाभ्यासेन वक्रगामिनी लोचनलीला यस्या एवंभूतया त्वया पुरोऽग्रे नमंस्त्वञ्चरणशरणीभवन् अयं नलो नालोकि किमिति प्रश्नः। लोचनयोर्लीलया विलासेन कटाक्षेणेति वा । रोदनवशात्प्रायेण त्वयाहं न ज्ञातः किमित्यर्थः । प्रणयकलहं परित्यज्य चरणपतितं मामवलोकनेनानुगृहाण । रोदनं मा कार्षीरिति भावः । अत्र कुपितत्वादेव रोदनं नेत्रयोर्वक्रगामित्वं [२]च ॥

  चकास्ति बिन्दुच्युतकातिचातुरी घनास्रुबिन्दुस्रुतिकैतवात्तव ।

  मसारताराक्षि ससारमात्मना तनोषि संसारमसंशयं यतः ॥ १०४ ॥

 चकास्तीति ॥ घना येऽत्स्त्रबिन्दवः तेषां स्रुतिश्च्यवनं तस्य कैतवायाजात्तव बिन्दुच्युतकाख्यस्य शब्दालंकारविशेषस्य विषयातिचातुरी महती चातुरी चकास्ति । बिन्दुच्युतकाख्यमलंकारं सम्यग्जानासि । अथ च बिन्दूनां च्युतमेव च्युतकम् , तद्विषयातिचातुरी घनासेरुबिन्दुस्रुतिकैतवाच्छोभते । त्वादशी कापि सम्यगलीकं रोदितुं न जानातीत्यर्थः । तदेवाह-हे मसारवदिन्द्रनीलवन्नीले स्निग्धे तारे कनीनिके ययोरेवंभूतेऽक्षिणी नेत्रे यस्यास्तत्संबुद्धिः, यतः कारणात्त्वं असंशयं निश्चितं संसारं सकलं जगदात्मना ससारं तनोषि । बिन्दोरनुस्वारस्य च्यवनचातुर्याद्विना सानुस्वारस्य संसारस्य ससारत्वमनुस्वारराहित्यं कथं कर्तुं शक्यमित्यर्थः । अथ च-आत्मना ससारं श्रेष्ठवस्तुसहितं करोषि । अस्मिन्संसारे त्वादृशी कापि नास्तीत्यलीकरोदनं कर्तुं त्वमेव जानासि नान्येत्यर्थः । अलीकरोदनेप्यतितरां शोभस इत्यर्थः । अनुस्वारच्यवनाद्यत्रार्थान्तरप्रतीतिः, तद्बिन्दुच्युतकम् । 'कान्तो नयनानन्दी बाले दुःखेन भवति सदा'इति तदुदाहरणम् । च्युतम् , नपुंसके भावे क्त स्वाथै कन्[३]


  1. 'अत्र विरोधाभासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासहेत्वलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासापद्धुत्यतिशयोक्त्यलंकारः' इति साहित्यविद्याधरी । 'अत्र कैतवशब्देनाजुबिन्दुच्युतेस्ताद्रूप्यापहवेन वर्णात्मकबिन्दुच्युतकत्वारोपादपहवभेदः । तदुपजीवनेन ससारमिति श्विटपदोपात्तप्रागुक्तार्थद्वयाभेदाध्यवसायेन बिन्दुच्युतकाख्यकार्यकारणोत्प्रेक्षणाच्छ्लेषमूला सापह्रवोत्प्रेक्षा, साच 'असंशयम्' इति व्यञ्जकप्रयोगाद्वाच्या' इति जीवातुः