पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
वैषधीयचरिते


स्ववालभारस्यापराधो नास्तीति कथयति । कथमपराधित्वं तस्येत्यत आह-किंभूतस्य स्ववालभारस्य-तदुत्तमाङ्गजैः समं तस्योत्तमाङ्गे शिरसि जाताः केशास्तैः सह तुलाभिलाषिणस्तुलां साम्यमभिलषतीत्येवंशीलस्तस्य । स्वयं बालः सन्महतां साम्यमिच्छति तदा तन्माता बालेनाझनादेवेदं कृतं क्षम्यतामिति वदति तद्वञ्चमरी। वालभारस्येति बवयोरभेदात् । उत्तमाङ्गजैरिति 'सप्तम्यां जनेर्डः,' 'अमूर्धमस्तकात्-' इति प्राप्तोऽप्यलुग् बाहुलकान्न भवति । अनागसे इति 'क्रियार्थोप-' इत्यादिना, 'क्रियया यमभिप्रैति-' इत्यादिना संप्रदानत्वे वा चतुर्थी । चपलशब्दस्य गुणवाचित्वाच्चापल्यमिति ष्यञा भाव्यम्, तथापि युवादित्वादणि चापलमिति साधु [[]]॥

महीभृतस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया ।
द्विधा नृपे तत्र जगत्त्रयीभुवां नतभ्रुवां मन्मथंविभ्रमोऽभवत् ॥२६

 महीति ॥ तत्र नृपे नले जगत्रयीभुवां त्रिलोकीसमुत्पन्नानां नतभ्रुवां सुन्दरीणां (पूर्वार्धॉक्तेन प्रकारेण) द्विधा मन्मथविभ्रमः कामजनितो विभ्रमोऽभवज्जातः । विशिष्टो भ्रमो विभ्रमः, विलासश्च । कामस्य विशिष्टो भ्रमः, कामजनितो विलासश्च । तदुभयं कथमित्यपेक्षायां यथाक्रमेणाह-तस्य महीभृतो राशो नलस्य मन्मथश्रिया कामश्रीसदृशशोभत्वेन स्वीयान्तःकरणे मदनोऽयमिति भ्रान्तिः । तथा निजस्य स्वस्य च चित्तस्यान्तःकरणस्य तं प्रति नलं प्रतीच्छया अत्यभिलाषेण कामजनितो विलासः कटाक्षादिरिति कामजन्यविभ्रमद्वैविध्यम् । महीभृत इति संबन्धषष्ठ्या मन्मथपदेनान्वयात्, नृपे इति विषयसप्तम्या मन्मथविभ्रमपदेनान्वयान्नात्र पौनरुक्त्यम् । चौ परस्परसमुच्चये । जगन्नयीभुवामिति सामान्येनोक्ते पतिव्रतादिरहितानामिति झेयम् । एवं 'न का निशि-' इत्यादावपि झेयम् । यद्वा-मन्मथश्रियैव इति चकारमेवकारार्थे व्याख्याय द्वितीयं समुच्चयार्थं व्याख्याय पतिव्रतानां मन्मथोऽयमिति निरभिलाषो विशिष्टो भ्रमो जातः । अन्यासां तु तं प्रतीच्छयापीति द्वैविध्यमित्यनौचिती परिहरणीया । 'विभ्रमों भ्रान्तिहावयोः' इति विश्वः । मनं मत् शास्त्राधभ्यासजन्यं ज्ञानं मनातीति मन्मथः । मूलविभुजादित्वात्कः [[]]॥

इदानीं क्रमेण देवनागमर्त्याङ्गिनानां कामविभ्रमं श्लोकत्रयेणाह-

निमीलनभ्रंशजुषा दृशा भृशं निपीय तं यस्त्रिदशीभिर्जितः ।
अमूस्तमभ्यासभरं विवृण्वते निमेषनिःखैरधुनापि लोचनैः ॥२७॥

निमीलनेत्यादिना ॥ त्रिदशीभिर्देवाङ्गनाभिः योऽभ्यासभरोऽभ्यासातिशयो निमी-


१ 'अत्र चापलमिव शंसतीति प्रतीयमानोत्प्रेक्षा । पुच्छविलोलनच्छलादित्यपहुतिः' इति साहित्यविद्याधरी । 'अत्र पुच्छचालनछलशब्देनापहुत्या वालबालयोरभेदाध्यवसायेन वालचापलत्वारोपादपहवभेदः' इति जीवातुः । २ 'अत्र नलश्रीविश्ववनितेच्छयोः श्लिष्टपदोपात्तविभ्रमोभयेन यथासंख्यसंबन्धाच्छ्लेषसंकीर्णे यथासंख्यालंकारः' इति जीवातुः । 'तस्य मन्मथश्रिया इत्युपमा । मन्मथविभ्रम इति श्लेषः' इति साहित्यविद्याधरी।