पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
प्रथमः सर्गः


स्वकलीति ॥ तन्मुखस्य प्रतिमा स्वरूपमुपमानं चराचरे स्थावरजंगमात्मके जगति नास्ति । चन्द्रपझे उपमानं चेत्तत्राह-कथंभूतस्य तन्मुखस्य-स्वेति । स्वा स्वकीया केलिः क्रीडा तस्या लेशो लवभूतं यत्मितं तेन निन्दितो निर्जित इन्दुर्येन तत् । तथा निजः स्वकीयोंऽशो भागस्तद्रूपे ये दृशौ नेत्रे ताभ्यां तर्जिता निर्भर्त्सिताधः-

कृता पद्मानां संपत्समूहः सौभाग्यं वा येन । चन्द्रपद्मातिरिक्तमन्यदुपमानं भविध्यतीति चेत्तत्राह-अतद्वयीति चराचरविशेषणम् । तयोश्चन्द्रपद्मयोदयी तद्वयी तस्या जित्वरं जयनशीलम् । न विद्यते तद्वयीजित्वरं सुन्दरान्तरमन्यत्सुन्दरं वस्तु यस्मिन् । जगति मुखस्योपमानं द्वयम् । चन्द्रः, पद्मं च । ततिरिक्तं वस्त्वन्तरं नास्ति । 'तद्वयमेतन्मुखेनांशभूतेन स्मितेन (चक्षुर्द्वयेन च) निर्जितमिति । समग्रस्य तन्मुखस्योपमानं नास्तीत्यर्थः । 'चराचरः स्याज्जगति' इति विश्वः । जित्वरमिति 'इण्नजि-' इति करप् । अन्यत्सुन्दरं सुन्दरान्तरम् । मयूरव्यंसकादित्वात्समासः । चराचरे इति पक्षे 'सर्वो द्वंद्वो-' इत्येकवद्भावः

पूर्वोक्तमर्थं पुनरप्याह-

सरोरुहं तस्य दृशैव निर्जितं जिताः स्मितेनैव विधोरपि श्रियः ।
कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता ॥२४॥

 सरोरुहमिति ॥ तस्य नलस्य मुखावयवभूतया दृशैव सरोरुहं पद्मं निर्जितम् । सितेनैव विधोरपि चन्द्रस्यापि श्रियो जिताः । परं पद्मचन्द्रातिरिक्तमन्यद्भव्यं सुन्दरं वस्तु कुतः कुत्रत्यम् । (अत एव) तदाननस्य नलाननस्योपमितावुपमाने महीयसी महती कवीनां दरिद्रता । अहो महदाश्चर्यम् । अत्यन्ताभाव इत्यर्थः । 'महीयसाम्' इति पाठे महीयसां कवीनां दरिद्रता । भव्यम् 'भव्यगेय-' इति निपातनात्साधु । यो हि यस्मान्निकृष्टो भवति स तेन दृशैव भर्त्स्यते, स्मितेन स्वल्पोपहासेनैवाधःक्रियते च

स्ववालभारस्य तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषिणः ।
अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोलनच्छलात २५

 स्ववालेति ॥ एवशब्दोऽप्यर्थः । चमरी पशुरपि पुनः पुनः पुच्छविलोलनच्छलात्पुच्छस्य विलोलनं चालनं तदेव छलं व्याजो मिषं तस्मात् स्ववालभारस्य स्ववालाः केशास्तेषां भारः समूहस्तस्यानागसेऽपराधाभावाय बालचापलं बालश्चपलो भवतीति तस्य चापलमपराधाय नेति माता यथा शंसति, तद्वञ्चमरी लाङ्गूलचलनव्याजेन


१ 'अत्र वक्ष्यमाणे च वाक्ये प्रतीपमलंकारः । 'आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ इति साहित्यविद्याधरी । 'चन्द्रारविन्दविजयस्य विशेषणगत्या नलमुखाप्रतिमानत्वहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः' इति जीवातुः। २ 'यः किल परस्य श्रियं जित्वा आनयति तस्य किं दारिघ्रं भवतीति विभावनाप्यलंकारः । 'क्रियायाः प्रतिषेधेऽपि फले व्यक्तिविभावना' इति साहित्यविद्याधरी । 'अत्रापि चन्द्रारविन्दविजयस्य वाक्यार्थस्य मुखोपमानदारिद्यहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः' इति जीवातुः।