पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८३
नवमः सर्गः।

पूर्वसर्गे भैम्यां देवानुरागप्रतिपादनेन सामोक्त्वा, अस्मिन्सर्गे 'अहो मनस्त्वाम्-' इत्यादिभिः श्लोकैर्देवानुग्रहज्ञापनेन दानमुक्त्वा, 'यदि स्वमुद्बन्धुम्-' इत्यादि श्लोकचतुष्केण भेदं प्रदर्श्य भेददण्डौ प्रतिपिपादयिषुरुपायचतुष्टयज्ञो नल आह-

  दिवो धवस्त्वां यदि कल्पशाखिनं कदापि याचेत निजाङ्गणालयम् ।

  कथं भवेरस्य न जीवितेश्वरी न मोघयाजः स हि भीरु भूरुहः ॥७४॥

 दिव इत्यादि श्लोकचतुष्टयेन भेदः प्रतिपाद्यते । हे भैमि, दिवो धव इन्द्रः निजाङ्गणमेव आलयः स्थानं यस्य एवंभूतं कल्पशाखिनं यदि चेत्कदापि त्वां भैमी मह्यं दातव्येति याचेत तदा हे भीरु भयशीले, अस्येन्द्रस्य जीवितेश्वरा प्राणेश्वरी कथं न भवेः। अभीष्टदः स्वामिना च याचितः सदा संनिहितः सोऽस्सै त्वां दास्यत्येवेति भावः । हि यस्मात् स भूरुहः कल्पवृक्षः मोघा निष्फला याच्ञा यस्य एवंभूतो न भवति याचितमवश्यं ददात्येव । 'निजाजिरालयम्' इति वा पाठः । जीवितेश्वरीति समासो दिनेश्वरवज्ज्ञेयः। भीर 'भियः क्रुक्रुकनौ', 'ऊतः' [१]इत्यूङ् ॥

  शिखी विधाय त्वदवाप्तिकामनां स्वयंहुतस्वांशहविः स्वमूर्तिषु ।

  क्रतुं विधत्ते यदि सार्वकामिकं कथं स मिथ्यास्तु विधिस्तु वैदिकः ॥ ७५ ॥

 शिखीति ॥ शिखी वह्निः त्वदवाप्तिकामनां त्वत्प्राप्त्यभिलाषं विधाय स्वमूर्तिषु स्वावयवेष्वाहवनीयादिषु स्वयमात्मनैव हुतम् 'अग्नये स्वाहा' इत्यादिमन्त्रेणान्यैर्यजमानदत्तं स्वस्यांशभूतं हविर्येन एवंविधः सन् सार्वकामिकं सर्वकामप्रयोजनकम् ।सर्वकामदातारमित्यर्थः। क्रतुं यदि विधत्ते स वैदिको विधिःतु पुनः मिथ्या असत्यः कथमस्तु । अन्येनानुष्ठितो यशस्तस्मै सर्वान्कामान्ददाति, किं पुनर्वह्निनानुष्ठितः । तेन वह्नेस्त्वत्प्राप्तिर्भविष्यतीति भावः । सार्वकामिकम् , 'प्रयोजनम्' इति ठञ्[२]

  सदा तदाशामधितिष्ठतः करं वरं प्रदातुं चलिताद्बलादपि ।

  मुनेरगस्त्याद्वृणुते स धर्मराड्यदि त्वदाप्तिं भण तत्र का गतिः ॥ ७६ ॥

 सदेति ॥ स धर्मराट् यमः अगस्त्यान्मुनेः सकाशाद्भैमीं मह्यं देहीति त्वदाप्तिं यदि वृणुते तदा का गतिः कः प्रकारः भण वद । अपितु न कोऽपि । किंभूतात्-सदा तदाशां यमदिशमधितिष्ठतः। तथा अत एव-वरमभीष्टलक्षणं श्रेष्ठं करं राजग्राह्यभागं यमाय प्रदातुं बलादपि स्वयमेव चलितात्प्रवृत्तात् । यमदिशि वसताऽसै राजभागोऽवश्यं देय इति स्वयमेव विचार्य स्वयमेव दातुमागतेन त्वां याचमानाय यमाय मुनित्वाद्यत्किंचिद्दातुं समर्थेनागस्त्येन त्वमवश्यं दातव्या । अगस्त्यनिवारकः कोपि नास्तीत्यर्थः । त्वदाप्तिमपि बलाद्यदि वृणुते इति वा । बलादपि वृणुते इति वा । तदाशाम् , 'अधिशीङ्-' इति [३]कर्मत्वम् ॥


  1. 'अत्र काव्यलिङ्गालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र काव्यलिङ्गालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी