पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
नैषधीयचरिते

  क्रतोः कृते जाग्रति वेत्ति कः कति प्रभोरपां वेश्मनि कामधेनवः।

  त्वदर्थमेकामपि याचते स चेत्प्रचेतसः पाणिगतैव वर्तसे ॥ ७७ ॥

 क्रतोरिति ॥ हे भैमि, अपां प्रभोवरुणस्य वेश्मनि क्रतोः कृते यागहविरर्थं कति कतिसंख्याकाः कामधेनवो जाग्रति सन्तीति को वेत्ति । अपि त्वियत्तया ताः कोऽपि न जानातीत्यर्थः । ततः किमत आह-स वरुणः भैमी मह्यं दातव्येति त्वदर्थं तासु मध्ये एकामपि चेद्याचते तर्हि प्रचेतसो वरुणस्य पाणिगतैव हस्तप्राप्तैव वर्तसे । सर्वथा चतुर्षु मध्ये एको वरणीयः, नान्यः प्रकारोस्तीति [१]भावः ॥

 दण्डमाह-

  न संनिधात्री यदि विघ्नसिद्धये पतिव्रता पत्युरनिच्छया शची।

  स एव राजव्रजवैशसात्कुतः परस्परस्पर्धिवरः स्वयंवरः ॥ ७८ ॥

 नेति ॥ शची इन्द्राणी भर्तुरन्यासक्तत्वेऽपि पतिव्रता पत्युरनिच्छया त्वत्कृतेन्द्रानादरेणाइन्द्राज्ञाव्यतिरेकेणेत्यर्थः । विघ्नसिद्धये यदि न संनिधात्री संनिहिता न भवेत् । भैमीस्वयंवरे ममानागमनाद्विघ्नो भवत्विति । तर्हि स तव स्वयंवर एव राजव्रजस्य त्वदर्थमन्योन्यस्पर्धायुक्तस्य राजसमूहस्य वैशसात्कलहान्मरणाद्धेतोः कुतः क्व । यतः- परस्परमन्योन्यं स्पधिनः वरा वरयितारो राजानो यत्र । स्वयंवर एव न भविष्यति, नलप्राप्तिस्तु दूरतो निरस्तेत्यर्थः । विवाहे गौर्याः सांनिध्यम्, स्वयंवरे शच्या इतीति[२]हासः॥

 तमेवार्थं सप्रपञ्चमाह-

  निजस्य वृत्तान्तमजानता मिथो मुखस्य रोषात्परुषाणि जल्पतः।

  मृधं किमच्छत्रकदण्डताण्डवं भुजाभुजि क्षोणिभुजां दिदृक्षसे॥७९॥

 निजस्येति ॥ त्वं क्षोणिभुजां राज्ञां भुजाभ्यां भुजाभ्यां प्रहृत्येदं युद्धं प्रवृत्तं भुजाभुजि भग्नानां छत्राणां अच्छत्रका ये दण्डास्तेषां ताण्डवं यस्यां क्रियायां यथा तथा किं दिदृक्षसे द्रष्टुमिच्छसि । किंभूतानां राज्ञाम्-रोषात् मिथोऽन्योन्यं परुषाणि जल्पत आक्रोशं कुर्वतो निजस्य स्वीयस्य मुखस्य वृत्तान्तं व्यापारमजानतां के प्रति किमहं ब्रवीमीत्यविदुषाम् । प्रायेण राजयुद्धदर्शनार्थिन्येव त्वं, न तु स्वयंवरार्थिनीत्यर्थः । शचीसंनिधानाभावाच्छन्त्रभङ्गाच्च राजव्रजवैशसमेव भवेत्, न तु स्वयंवर इत्यर्थः । भुजाभुजि, 'तत्र तेनेदमिति-' इति समासे 'इच् कर्मव्यतिहारे' इतीचि 'अन्येषामपि-' इति दीर्घः । इचश्च तिष्ठद्ग्वादिषु पाठादव्ययत्वम् । दिदृक्षसे, 'ज्ञाश्रुस्मृदृशां सनः' इति तङ्[३]


  1. 'अत्रानुप्रासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासहेत्वलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी