पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
नैषधीयचरिते

दधौ प्रकाशं स्फुटम् । सखीभिरपि यथाकर्ण्यते तथावददित्यर्थः । प्रकाशमत्युज्ज्वलं प्रसन्नं चेति मुखविशेषणं वा । अयोग्या अपीन्द्रादयो मां वाञ्छन्तीति गूढस्मिता। सतीपदेन यो मनसा पूर्वं वृतः स एव पतिरिति सूचितम् । 'तदाभाषण-' इत्यादिना तेन सह नलवुद्ध्या आभाषणं मुख्यं, उत्तरदानं प्रासङ्गिकमिति सूचितम् [१]

  वृथा परीहास इति प्रगल्भता न नेति च त्वादृशि वाग्विगर्हणा।

  भवत्यवज्ञा च भवत्यनुत्तरादतः प्रदित्सुः प्रतिवाचमस्मि ते ॥२५॥

 वृथति ॥ हे देवदूत, इति इयं प्रगल्भता धृष्टत्वम् । इति किम्-वृथा निष्प्रयोजनः परीहास उपहासः । इयम् अपरिचितेन सहोपहासं करोति । अत्यन्तं धृष्टेयमिति सखीजनो वदिष्यति । त्वादृशि प्रतिबन्धादिरूपः क्रीडांवाद इति कारणाद्वृथा । इति किम्प्रगल्भतेति वा । तथा-यत्त्वयोपदिश्यते तन्मया न क्रियत इति न नेति त्वादृशि निषेधवाक् त्वत्सदृशस्य विगर्हणा विशेषेण निन्दैव भवति । भव्यं प्रति सोपपत्तिकमेव वक्तव्यम्, निरुपपत्तिकं तु विगर्हणा । तर्हि तूष्णीं स्थातव्यमिति चेदत आह-भवति त्वयि अनुत्तरादुत्तरादानात् तव देवानां चावज्ञा भवति । अतः अहं प्रतिवाचं तुभ्यं प्रदित्सुः प्रदातुमिच्छुरस्मि । न नेति देवानां पृथङ्निषेधसूचनार्थम् । त्वादृशि, भवतीतिपदाभ्यां तवैव माहात्म्यादुत्तरं दीयते, न त्विन्द्रादिमाहात्म्यादिति सूचितम् । अन्यस्मिन्दूते नेत्यर्थः । परीहासः, 'उपसर्गस्य घञि-' इति [२]दीर्घः ॥

  कथं नु तेषां कृपयापि वागसावसावि मानुष्यकलाञ्छने जने।

  स्वभावभक्तिमवणं प्रतीश्वराः कया न वाचा मुदमुङ्गिरन्ति वा॥२६॥

 कथमिति ॥ मानुष्यकमेव लाञ्छनं यस्य एवंविधे मल्लक्षणे जने कृपयापि हेतुना असौ अस्मान्वृणीष्वेति देवानां वाक् कथं नु केन वा प्रकारेणासावि प्रसूता । मानव्या देवतानर्हत्वात्तेषां तां प्रत्येवं कृपया वक्तुमनुचितम् । कथंन्विति निपातसमुदायः । पृथग्वा । नुः शिरश्चालने प्रश्ने वा । तेषां कृपया कर्त्र्या वाक् कथमसावीति वा । मानुष्यकलाञ्छन इति स्वनिन्दया देववरणनिषेधे तात्पर्यम्।वाशब्दः पूर्वोक्तानौचितीपरीहासार्थः । अथवेति वा ईश्वराः प्रभवः स्वभावेन भक्त्या प्रवणं नम्रं जनमुद्दिश्य कया वाचा मुदं हर्षं नोद्गिरन्ति प्रकटयन्ति । अपितु यया कयापि । भक्त्या मां प्रति स्वहर्षप्रकटने तेषां तात्पर्यम्, न तु मद्धरण इति सोल्लुण्ठं वचनमिति भावः । ते केवलं नमस्कारार्हाः, न तु वरणार्हा इत्यपि सूचितम् । प्रथमपक्षेऽसावीति कर्मकर्तरि 'अचः कर्मकतरि' इति चिण् । पक्षे 'भावकर्मणोः' इति चिण् । मानुष्यक इति 'योपधात्-' इति वुञ[३]

  अहो महेन्द्रस्य कथं मयौचिती सुराङ्गनासंगमशोभिताभृतः ।

  हृदस्य हंसावलिमांसलश्रियो बलाकयेव प्रबला विडम्बना ॥२७॥


  1. 'अत्र छेकानुप्रासरूपकालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र काव्यलिङ्गालकारः इति साहित्यविद्याधरी
  3. 'अत्र छैकानुप्रासोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।