पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६५
नवमः सर्गः।

 अहो इति ॥ सुराङ्गनानामुवंशीप्रभृतीनां संगमेन शोभिताभृतः शोभाशीलत्वं विभ्राणस्य महेन्द्रस्य मानुष्या मया कृत्वा विडम्बना कथमाचिती । अपितु न कथंचित् । अहो आश्चर्ये. संबोधने वा । अत्यन्तमनौचितीत्यर्थः । उचितैवाचिती। कया कस्येव--- बलाकया कृत्वा हंसावल्या मांसला बहला श्रीः शोभा यस्य ह्रदस्येव । प्रबला विडम्बना जुगुप्सिताकारता । हंसापेक्षया यथा बलाका हीना, तथा रम्भाद्यपेक्षयाऽहमितीन्द्रवरणनिषेधे तात्पर्य[१]म् ॥

 पूर्वोक्तमेव द्रढयति--

  पुरः सु[२]रीणां भण केव मानवी न यत्र तास्तत्र तु शोभिकापि सा।

  अकाञ्चनेऽकिंचन नायिकाङ्गके किमारकूटाभरणेन न श्रियः ॥ २६ ॥

 पुर इति ॥ सुरीणां देवाङ्गनानां पुरोऽग्रे मानवी केव भण कथय । अपितु न कापि । अतितुच्छेत्यर्थः । इवशब्दो वाक्यालंकारे । 'केन' इति पाठे मानवी सुरीणां पुरः केन गुणेन शोभिका शोभते अण । एतादृशः कोऽपि गुणो मानुष्यां न विद्यत इत्यर्थः । तर्हि कुत्र शोभत इत्यत आह-यत्र ता देव्यो न विद्यन्ते तत्र तु पुनः पृथिव्यां सा अपि मानव्यपि शोभिका शोभते । मानुष्यपेक्षयाहं सुन्दरी न तु देव्यपेक्षया । तत्रष्टान्तः-यथा अकाञ्चने सुवर्णालंकाररहितेऽकिंचनस्य दरिद्रस्य नायिका स्त्री तस्या अङ्गकेऽल्पेऽवयवे एकस्मिन्नप्यवयवे आरकूटस्य कृतेनालंकारेण श्रियः शोभाः किं न भवन्ति । अपि तु भवन्त्येव । तथा देवीरहितायां भुवि अन्यरमण्यपेक्षया ममापि शोभा युक्तैवेत्यर्थः । पूर्वोक्तमेव तात्पर्यम् । 'रीतिः स्त्रियामारकूटम्' इत्यमरः । लोके पित्तलमिति वदन्ति । सुरीणाम्, पुंयोगे ङीष् । मानवी, अण्णन्तत्वात् । शोभिका, कर्तरि शुभेर्ण्वुल् । किंचन किमपि धनादि यस्य नास्ति सोऽकिंचनः मयूरव्यंसकादित्वात्समासः। अङ्गक इत्यल्पत्वे कन् । अल्पत्वं संख्याकृतम् । यद्वा स्वार्थिकः क[३]न् ॥

  यथातथा नाम गिरः किरन्तु ते श्रुती पुनर्मे बधिरे तदक्षरे ।

  पृषत्किशोरी कुरुतामसंगतां कथं मनोवृत्तिमपि द्विपाधिपे ॥२९॥

 यथेति ॥ ते देवाः यथातथा येनतेन प्रकारेणाभिलाषेण कृपया वा वरणविषये गिरो वाणीः किरन्तु विक्षिपन्तु नाम सुखेन ब्रुवन्तु । तथापि मे श्रुती कर्णौ पुनः तासां गिरामक्षरे एकस्मिन्नपि वर्णे विषये बधिरे । एकमप्यक्षरं नाकर्णयतः किमु बहूनि, किंतरां चार्थमित्यर्थः । श्रुतमप्यननुष्ठेयत्वादश्रुतमेवेत्यर्थः । दृष्टान्तेन हेतुमाह-पृषतो हरिणस्य किशोरी हरिणी द्विपाधिपे ऐरावते हस्तिश्रेष्ठे वा विषये असंगतामयोग्यां मनोवृत्तिमपीच्छामात्रमपि कथं कुरुताम् । इच्छामपि न धारयति, नानुतिष्ठतीति किं वाच्यमित्यर्थः । पशुरपि बालापि सती या मृगी योग्यायोग्यविभागं जानाति, ततोऽप्यज्ञा किमहम् । तान्न वृणे इति भावः॥


  1. 'अत्रानुप्रासोपमालंकारः' इति साहित्यविद्याधरी।
  2. 'सुराणाम् इति पाठः साहित्यविद्याधरीव्याख्यातः ।
  3. 'अत्र दृष्टान्तालंकारः' इति 'जीवातुसाहित्यविद्याधर्यौ।