पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०७
सप्तमः सर्गः।

 किमिति ॥ अभितः पार्श्वद्वये दृश्या दर्शनयोग्या रमणीया मम नर्मदाया दर्शनमात्रेण सुखदाया अस्या भैम्याः सेयं बाहुलतारूपा मृणाली किमिति संभावना । नर्मदाया नद्यास्तद्वयेऽपि मृणाली दृश्या भवति । तथेयमपि नर्मदा । ततश्चैतदीया बाहुवल्यपि मृणालीति संभाव्यते । अस्याः कुचौ अन्तरीपे द्वीपे किमुत्तस्थतुरुन्ममजतुः। किंभूतायाः-स्मरोष्मणा तारुण्यतेजसा कृत्वा शुष्यत्तरमतितरां विनश्यवस्थं बाल्यमेव वार्जलं यस्याः । वाल्यनाशात्तारुण्योगमाञ्च द्वीपतुल्यावत्युच्चौ कुचावस्या इति भावः । जलशोपान्नर्मदायां द्वीपयोरुन्मज्जनं युक्तम् । बाहुलता इति पृथग्वा । 'आपः स्त्री भूम्नि वारि' इत्यमरः । अन्तरीपे 'व्द्यन्तरुपसर्गेभ्योप ईत्', 'ऋक्पूर-' इति समासान्तः[१]

  तालं प्रभु स्यादनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् ।

  परं च नाश्रित्य तरुं महान्तं कुचौ कृशाङ्याः स्वत एव तुङ्गौ ॥

 तालमिति ॥ तालफलं द्विविधम् , पतितमपतितं च । तालं कर्तृ एतौ कृशाङ्या भैम्याः कुचौ अनुकर्तुं प्रभु समर्थं स्यात् । यतः-पतितं भैम्याः कुचावनुकर्तुं न तावत्प्रभु समर्थम् । यत उत्थानेन परस्परसंश्लेपोद्गमनेन सुस्थौ । निरन्तरत्वेन सुन्दरावित्यर्थः। तस्य पतितत्वात्तयोरुन्नतत्वात्साम्यं न युज्यत इत्यर्थः । अन्योऽपि पातित्यदोषयुक्तोऽन्यं सुकृतिनं समीकर्तुं न शक्नोत्येवेत्यर्थः। द्वितीयस्यापतितस्याप्यसामर्थ्यमाह-परम् अतिशयेन महान्तमुच्चम् , अथ च परमन्यं उच्चं तालवृक्षमाश्रित्य तुङ्गमपि कुचौ समीकर्तुं न समर्थम् । यतः कुचौ स्वत एव परानपेक्षमेव तुङ्गो उच्चतरौ । स्वतस्तुङ्गस्य पराश्रयेण तुङ्गस्य च कुतः साम्यम् । तालफलादप्यतिवृत्तावुच्चतरौ च कुचाविति भावः[२]

  एतत्कुचस्पर्धितया घटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।

  तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ॥

 एतदिति ॥ एतस्या भैम्याः कुचस्पर्धितया स्तनस्पर्धया ख्यातस्य प्रसिद्धस्य घटस्य न्यायशास्त्रादिषु यत्कृतकं तदनित्यं यथा घटः' इति, 'यन्नित्यं न तदकृतकमपि न यथा घटः' इत्यन्वयव्यतिरेकाभ्यां निदर्शनत्वं दृष्टान्तत्वमजनि जातम् । प्रसिद्धस्य हि दृष्टान्तत्वम् । अन्योऽप्यप्रसिद्धः प्रसिद्धस्पर्धया ख्यातो भवति । मणिकादिकारी अलिंजरादिकारी च तस्माच्छिल्पात् भैमीकुचस्पर्धिघटनिर्माणादेव प्रसिद्धं नाम यस्यैवंविधः सन् कुम्भकारोऽजनि जातः । मणिकादिकारित्वात्कुम्भकारस्य कुम्भकारत्वप्रसिद्धिर्न, किंतु भैमीकुचस्पर्धया ख्यातस्य कुम्भस्य निर्माणात्कुम्भकारत्वप्रसिद्धिः । नान्यत्किचित्कारणम्। 'वरं विरोधोपि समं महात्मभिः' इति भारविवचनात् । कुम्भपरिमाणावेतत्कुचाविति भावः। 'अलिंजरः स्यान्मणिका' इत्यमरः[३]


  1. 'अत्र छेकानुप्रासोत्प्रेक्षालंकारौ' इति साहित्यविद्याधरी
  2. 'अत्र काव्यलिङ्गविरोधसमासो. त्यलंकाराः' इति साहित्यविद्याधरी
  3. 'अत्रासंबन्धे संबन्ध इति रूपकातिशयोक्तिकाव्यलिङ्गापद्रुत्य लंकाराः' इति साहित्यविद्याधरी